________________
कृदन्ते कृत्यप्रक्रिया।
२७३ इत्यर्थः" पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्य इत्यर्थः । कृष्टसमीकरणार्थ स्थूलकाष्ठम् हलिः । अन्यत्र तु विपव्यम् ॥ विनेयम् । जेयम् ॥ प्रत्यपिभ्यां ग्रहे।३।१।११८॥ छन्दसीति वक्तव्यम् * ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥ पदाखैरिबाह्यापक्ष्येषु च ३३११११९ ॥ अवगृह्यम् । प्रगृह्यं पदम् । अखैरी परतन्त्रः। गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्गानिर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥ विभाषा कृवृषोः ।।१।१२० ॥ क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥ ऋहलोय॑त् ।।१।१२४ ॥ ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ण्यम् ॥ युग्यं च पत्रे ।३।१।१२१ ॥ पत्रं वाहनम् । युग्यो गौ । अत्र क्यप् कुत्वं च निपात्यते ॥ अमावस्यदन्यतरस्याम् ।३।१॥ १२२ ॥ अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको हखश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रर्कावमावस्या । अमावास्या ।। ऋहलोर्ण्यत् ॥ चजोरिति कुत्वम् । पाक्यम् ॥ पाणौ सृजेर्यद्वाच्यः * ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसा रज्जुः ॥ समवपूर्वाच्च * ॥ समवसर्या ॥ न कादेः ७३५९॥ वादेर्धातोश्चजोः कुत्वं न । गर्व्यम् । वार्तिककारस्तु चजोरिति सूत्रे निष्ठायामनिट इति पूरयित्वा न कादेरित्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु कादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥ अजिव्रज्योश्च ७२६०॥ न कुत्वम् । समाजः । परिव्राजः ॥ भुजन्युजौ पाण्युपतापयोः ३६१॥ एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्चेति घञ् । न्युजन्त्यस्मिन्निति न्युजः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥ प्रयाजानुयाजौ यज्ञाङ्गे ॥३॥६२ ॥ एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥ वश्चेर्गतौ २६३॥ कुत्वं न । वयम् । गतौ किम् । वयं काष्ठम् । कुटिलीकृतमित्यर्थः । ओक उचः के
३२६४॥ उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घना सिद्धेऽन्तोदात्तार्थमिदम् ॥ ण्य आवश्यके १३॥३५॥ कुत्वं न । अवश्यपाच्यम् ॥ यजयाचरुचप्रवचर्चश्च ७३३६ ॥ ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अय॑म् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् ॥ त्यजेश्च * ॥ त्याज्यम् ॥ त्यजिपूज्योश्चेति काशिका ॥ तत्र पूजेम्रहणं चिन्त्यम् । भाष्यानुसत्वात् । ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् ॥ वचोऽशब्दसंज्ञायाम् ७ ॥३६७ ॥ वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥ प्रयोज्यनियोज्यौ शक्यार्थे ।७ ।३६८॥ प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥ भोज्यं भक्ष्ये