________________
२७२
- सिद्धान्तकौमुद्याम् ७१ ॥ इत्यः । स्तुत्यः । शास इदङ्हलोः । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । . वृत्यः । वृङस्तु वार्या ऋत्विजः । आइत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ॥ शंसिदुहिगुहिभ्यो वेति काशिका ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः । ईडवन्दवृशंसदुहां ण्यत इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ॥ आङ्पूर्वादलेः संज्ञायामुपसंख्यानम् * ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदितामिति नलोपः । आज्यम् ॥ ऋदपधाच्चाक्लपितेः ।।१।११०॥ वृत् । वृत्यम् । वृध् । वृद्ध्यम् । कुपिनृत्योस्तु । कल्प्यम् । चय॑म् । तपरकरणं किम् । कृत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥ ई च खनः ।३।१।१११॥ चात् क्यप् । आद्गुणः खेयम् । इ चेति इखः सुपठः ॥ भृशोऽसंज्ञायाम् ।।१।११२॥ भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ समश्च बहुलम् * ॥ संभृत्याः । संभार्याः । असंज्ञायामेव । विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समजेति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरि तार्थः । सत्यम् । बिभर्ते, इति दीर्घान्तात् नयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥ मृजेर्विभाषा ।३।१।११३ ॥ मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥ चजोः कुधिण्यतोः ७३३५२॥ चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे । निष्ठायामनिट इति वक्तव्यम् । तेनेहन । गय॑म् । मृजेर्वृद्धिः । मार्ग्यः ॥ न्यवादीनां च ३३५३ ॥ कुत्वं स्यात् । न्यथैः । नावञ्चेरित्युप्रत्ययः ॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ३॥१॥ ११४ ॥ एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रेत्यधिकरणे क्यप् । निपातनादीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा पू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपेरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्ट खयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥ भिद्योद्ध्यौ नदे ।३।१।११५ ॥ भिदेरुज्झेश्च क्यप् । उज्झेधत्वं च । भिनत्ति कूलं भिद्यः उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥ पुष्यसिद्ध्यौ नक्षत्रे ।। ११११६ ॥ अधिकरणे क्यन्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥ विपूयविनीयजित्या मुञ्जकल्कहलिषु ।३।१।११७ ॥ पूजनीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । “पिष्टं औषधिविशेष
१ अयं पाठः शेखरस्थः ॥