________________
तिङन्ते कृत्यप्रक्रिया ।
२७१ जन्यम् । जनेर्यद्विधिः खरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्चेति निषेधात् ॥ हनो वा यद्वधश्च वक्तव्यः * ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥ पोरदुपधात् ।।१।९८पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥ आङो यि ७११॥६५॥ आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधत्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥ उपात्प्रशंसायाम् ७११६६ ॥ उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥ शकिसहोश्च ।३।११९९ ॥ शक्यम् । सह्यम् ॥ गदमदचरयमश्चानुपसर्गे ।३।१।१००॥ गद्यम् । मद्यम् । चर्यम् । चरेराङि चागुरौ * ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव तेन न तत्र भवेद्विनियम्यमिति वार्तिकप्रयोगात् । एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥ अवद्यपण्यवर्या गोपणितव्यानिरोधेषु ।३।१।१०१॥ वदेर्नञि उपपदे वदः सुपीति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवयं पापम् । गर्दै किम् । अनुद्यं गुरुनाम । तद्धि न गर्दा वचनानह च ॥ आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्येष्ठापत्यकलत्रयोः । इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यहमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्या कन्या । वृत्यान्या ॥ वह्यं करणम् ।३।१।१०२॥ वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥ अर्यः स्वामिवैश्ययोः ।३।१।१०३ ॥ ऋ गतौ । अस्माद्यत् ण्यतोऽपवादः। अर्यः खामी वैश्यो वा । अनयोः किम् । आर्यो ब्राह्मणः । प्राप्तव्य इत्यर्थः ॥ उपसर्या काल्या प्रजने ।३।१।१०४॥ गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः। गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । यजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥ अजयं संगतम् ।।१।१०५ ॥ नपूर्वाजीयतेः कर्तरि यत् संगतं चेद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्य कुरु द्रुतमिति भट्टिः । मृगैरजर्य जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्य संगतेन ॥ वदः सुपि क्यप् च ।।१।१०६॥ उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्यस्याञ्चाद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः । तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्येके। उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥ भुवो भावे ।३।१।१०७॥ क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥ हनस्त च ।।१।१०८ ॥ अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकारश्चान्तादेशः । ब्रह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥ एतिस्तुशास्वृहजुषः क्यप् ।३।१।१०९॥ एभ्यः क्यप्स्यात् ॥ इस्वस्य पिति कृति तुक् ।।१।