________________
॥ श्रीगणेशायनमः ॥
अथ पूर्वकृदन्तप्रकरणम् ।
धातोः |३|१|९१ ॥ आतृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् ॥ कृदतिङ् ॥ वासरूपोऽस्त्रियाम् । ३११९४ ॥ परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् ख्यधिकारोक्तं विना ॥ कृत्याः | ३|११९५ ॥ अधिकारोऽयं ण्वुलः प्राक् || कर्तरि कृत् | ३|४|६७ ॥ कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥ तयोरेव कृत्यक्तखलर्थाः | ३ | ४ ७० ॥ एते भावकर्मणोरेव स्युः ॥ तव्यत्तव्यानीरः | ३|१|९६ ॥ धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थी । एधितव्यम् । धन त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ॥ वसेस्तव्यत्कर्तरि णिच्च * ॥ वसतीति वास्तव्यः ॥ केलिमर उपसंख्यानम् ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः । भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥ कृत्यचः |८|४ | २९ ॥ उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमनः ॥ निर्विण्णस्योपसंख्या - नम् * ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥ पेर्विभाषा | ८|४|३० ॥ उपसर्गस्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तत्स्थस्य नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । विहितविशेषणं किम् । यका व्यवधानेऽपि यथा स्यात् । प्रयाप्यमाणं पश्य । णत्वे दुर उपसर्गत्वं नेत्युक्तम् । दुर्यानम् । दुर्यापनम् ॥ हलचेजुपधात् ।८|४|३१ ॥ हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् || इजादेः सनुमः ।८।४।३२॥ सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तत्स्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुम्ग्रहणमनुखारोपलक्षणार्थम् । अट्कुप्वाङिति सूत्रे ऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव | प्रोम्भणम् ॥ वा निंसनिक्षनिन्दाम् ||८|४|३३ ॥ एषां नस्य णो वा स्यात् कृति परे । प्रणिसितव्यम् । प्रनिंसितव्यम् ॥ न भाभूपूकमिगमिप्यायीवेषाम् |८|४|३४ ॥ एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् । पूञ एवेह ग्रहणमिष्यते ॥ पूङस्तु प्रपवणीयः सोमः ॥ ण्यन्तभादीनामुपसंख्यानम् * ॥ प्रभापनीयम् । खुशाञः शस्य यो वेत्युक्तम् । णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥ कृत्यल्युटो बहुलम् ||३|४| ११३ ॥ स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥ अचो यत् । ३|१|९७॥ अजन्ताद्धातोर्यत्स्यात् । देयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यदादिष्वेव यतोऽपि सुपठत्वात् || ईद्यति | ६|४|६५ ॥ यति परे आत ईत्स्यात् । गुणः। देयम् । ग्लेयम् ॥ तकिशसिचतियतिजनिभ्यो यद्वाच्यः * ॥ तक्यम् । शस्यम् । चत्यम् ।