________________
तिङन्ते लकारार्थप्रक्रियाः।
२६९ स्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वमेदान्वये तात्पर्य ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीत् यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमिति यूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुक्ष्व दाधिकमाखादयखेत्यभ्यवहरते। तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ग्ध्वमाखादयध्वमित्यभ्यवहरध्वे । पक्षे हिखौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून्पिबति । धानाः- खादति । अन्नं भुते । दाधिकमाखादयते । एतेन, पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमखास्थ्यमहर्दिवं दिवः । इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥
इति लकारार्थप्रक्रिया ॥ इति भट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्धे तिङन्तं समाप्तम् ।