________________
२६८
सिद्धान्तकौमुद्याम् ।३।३।१५६॥ वा स्यात् । कृष्णं नमेच्चत्सुखं यायात् । कृष्णं नस्यति चेत्सुखं यास्यति ॥ भविष्यत्येवेष्यते ॥ नेह । हन्तीति पलायते ॥ इच्छार्थेषु लिलोटौ ।३।२१५७॥ इच्छामि भुञ्जीत भुतां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ॥ कामप्रवेदन इति वक्तव्यम् * ॥ नेह । इच्छन् करोति ॥ लिङ् च ।३३।१५९॥ समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ।३।३। १६०॥ लिङ् स्यात्पक्षे लट् । इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रणेति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने। भोजनं लभेय । एवं लोट् ॥ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।।३।१६३ ॥ प्रैषो विधिः । अतिसर्गः कामाचारानुज्ञा । भवता यष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥ लिङ् चोर्ध्वमौहर्तिके ।३।३।१६४॥ प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥ स्मे लोट् ।३।३।१६५॥ पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्व मुहूर्ताद् यजतां स्म ॥ अधीष्टे च ३३३३१६६ ॥ स्मे उपपदेऽधीष्टे लोट् स्यात् । त्वं म अध्यापय ॥ लिङ् यदि ।३।१६८ ॥ यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥ अर्हे कृत्यतृचश्च ।३।३१६९॥ चाल्लिङ्ग । त्वं कन्यां वहेः ॥ शकि लिङ्ग च ।३।३।१७२ ॥ शक्तौ लिङ स्यात् । चात्कृत्याः । त्वं भारं वहेः ॥ माङि लुङ्ग ।३।३।१७५॥ मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥ धातुसंबन्धेप्रत्ययाः ॥३॥४॥ १॥ धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥ क्रियासमभिहारे लोट् लोटो हिखौ वा च तध्वमोः ।।४।२ ॥ पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिखौ स्तस्तिङामपवादः । तौ च हिखौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिखौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्यते । हिखविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः खो भावकर्मकर्तृषु ॥ समुच्चयेऽन्यतरस्याम् । ३॥४॥३॥ अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥३॥४॥४॥ आये लोडिधाने लोटप्रकृतिभूत एव धातुरनुप्रयोज्यः ॥ समुच्चये सामान्यवचनस्य ।३।४५ ॥ समुच्चये लोड्डिधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्यथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ क्रियासमभिहारे द्वे वाच्ये * ॥ याह्यिाहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्त