________________
तिङन्ते लकारार्थप्रक्रिया ।
२६७ पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तत इति विवेकः ॥ गीयां लडपिजात्वोः ॥३॥३॥ १४२॥ आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥ विभाषा कथमि लि. च ॥३॥ १४३ ॥ गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्म त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लङ् भूते वा । कथं नाम तत्र भवान् धर्ममत्यक्ष्यत् अत्याक्षीद्वा ॥ किंवृत्ते लिलटौ ।३।३।१४४॥ गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लङ् प्राग्वत् ॥ अनवक्लुप्त्यमर्षयोरकिंवृत्तेऽपि ३२३३१४५ ॥ गर्हायामिति निवृत्तम् । अनवकुप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिप्यति वा । लङ् प्राग्वत् ॥ किङ्किलास्त्यर्थेषु लट् ।३।३।१४६॥ अनवकुस्त्यमर्षयोरित्येनद्गर्हायां चेति यावदनुवर्तते । किङ्किलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किङ्किल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा त्वं शूद्रीं गमिष्यसि । अत्र लङ् न ॥ जातुयदोलि ।।३।१४७॥ यदायघोरुपसंख्यानम् * ॥ लटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लङ् प्राग्वत् ॥ यच्चयत्रयोः ३२३३१४८॥ यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥ गर्दायां च ।३।३।१४९ ॥ अनवकुस्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्दायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयः । अन्याय्यं तत् ॥ चित्रीकरणे च ।३।३।१५०॥ यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥ शेषे लडयदौ ।३।३।१५१ ॥ यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट् स्यात् । आश्चर्यमन्धोनाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्य यदि सोऽधीयीत ॥ उताप्योः समर्थयोर्लिङ् ।३।३१५२ ॥ बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्गिमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लङ्॥ कामप्रवेदनेऽकचिति ।३३३३१५३ ॥ स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कचिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥ संभावनेऽलमिति चेत्सिद्धाप्रयोगे ।३।३।१५४ ॥ अलमर्थोऽत्र प्रौढिः । संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । संभावनेऽर्थे लिङ् स्यात्तच्चत्संभावनमलमिति अलमि सिद्धाप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम् । अलं कृष्णो हस्तिनं हनिष्यति ॥ विभाषा धातौ संभावनवचनेऽयदि ।३।३।१५५ ॥ पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥ हेतुहेतुमतोर्लिङ्