________________
२६६
सिद्धान्तकौमुद्याम्
मानायां भविष्यति लड्डा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥ लोडर्थलक्षणे च |३|३|८ ॥ लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्डा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुङ्ऌटौ ॥ लिङ् चोर्ध्वमौहूर्तिके | ३|३|९ ॥ ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्गलटौ वा स्तः । मुहूर्तादुपरि उपाध्यायश्वेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥ वर्तमानसामीप्ये वर्तमानवद्वा | ३ | ३ | १३१ ॥ समीपमेव सामीप्यम् । खार्थे ष्यञ् । वर्तमाने लडित्यारभ्य उणादयो बहुलमिति यावत् येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥ आशंसायां भूतवच्च |३|३|१३२ ॥ वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्गलिटौ न ॥ क्षिप्रवचने ऌट् || ३ | ३ | १३३ ॥ क्षिप्रपर्याये उपपदे पूर्वविषये ऌट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लग्रहणं लुटोsपि विषये यथा स्यात् । श्धः शीघ्रं वाप्स्यामः ॥ आशंसावचने लिङ् | ३ | ३|१३४ ॥ आशंसावाचिन्युपपदे भविष्यति लिङ्ग स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसेक्षि प्रमधीयीय ॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः | ३ | ३|१३५ ॥ क्रियायाः सातत्ये सामीप्ये च गम्ये लङ्लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यति - कान्ता तस्यामग्नीनाधित । सोमेनायष्ट । येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥ भविष्यति मर्यादावचनेऽवरस्मिन् |३|३|१३६ ॥ भविष्यति क मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योयमध्वा गन्तव्य आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः || कालविभागे चान होरात्राणाम् ||३|३|१३७ ॥ पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्र संबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योsवरः पञ्चदशरात्रः तत्राध्येतास्महे | परस्मिन्वि भाषा | ३।३।१३८ ॥ अवरस्मिन्वर्ज पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे ॥ लिङ्गनिमित्ते लुङ् क्रियातिपत्तौ । ३।३।१३९ ॥ भविष्यतीत्येव । सुवृष्टिश्वेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥ भूते च | ३ | ३ | १४० ॥ पूर्वसूत्रं संपूर्णमनुवर्तते ॥ वोताप्योः | ३ | ३|१४१ ॥ वा आ उताप्योरिति छेदः । उताप्योरित्यतः प्राग्भूते लिनिमित्ते लृङ् वेत्यधिक्रियते