________________
तिङन्ते लकारर्थप्रक्रिया ।
२६५ र्भावितण्यर्थस्य पुनः प्रेषणत्यागे। विकुर्वते सैन्धवाः। व्यकारिष्ट । व्यकारिषाताम् । व्यकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥ कुषिरजोःप्राचां श्यन्परस्मैपदं च।१॥३॥९०॥ अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्त्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥
॥इति कर्मकर्तृप्रक्रिया ॥ अभिज्ञावचने लट् २०११२ ॥ स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लट् स्यात् । लङोपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥ न यदि ।३।२।११३ ॥ यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुमहि ॥ विभाषा साकाङ्के ।३।२।११४॥ उक्तविषये लड़ा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं, चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि न यदीति बाधित्वा परत्वाद्विकल्पः ॥ परोक्षे लिट् ।३।२।११५ ॥ चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥ अत्यन्तापह्नवे लिड़क्तव्यः * ॥ कलिङ्गेष्ववात्सीः नाहं कलिङ्गान् जागाम ॥ हशश्वतोले च ।।२।११६ ॥ अनयोरुपपदयोर्लिड्विषये लङ् स्यात् चाल्लिट् । इति हाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥ प्रश्ने चासन्नकाले ।३।२।११७ ॥ प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छयमानेऽर्थे लिड्विषये ललिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥ लट् स्मे ।३।२।११८ ॥ लिटोऽपवादः । यजति स्म युधिष्ठिरः ॥ अपरोक्षे च ।३।२।११९ ॥ भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥ ननौ पृष्टप्रतिवचने ।३।२१२० ॥ अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥ नन्वोर्विभाषा ।३।२।१२१ ॥ अकार्षीः किम् । न करोमि । नाकार्षम् । अहं न करोमि । अहं न्वकार्षम् ॥ पुरि लुङ् चास्मे ।३।२।१२२ ॥ अनद्यतनग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् न तु स्मयोगे। पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्मुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥ यावत्पुरानिपातयोर्लट् ॥३३॥४॥ यावद्भुङ्क्ते । पुरा भुते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पुरा यास्यति ॥ विभाषा कदाकोः ।३।३।२॥ भविष्यति लड् वा स्यात् । कदा कर्हि वा भुते । भोक्ष्यते । भोक्ता वा ॥ किंवृत्ते लिप्सायाम् ॥३॥३॥६॥ भविष्यति लड्वा स्यात् । कं कतरं कतम वा भोजयसि । भोजयिष्यसि । भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥ लिप्स्यमानसिद्धौ च ।।३।७॥ लिप्स्यमानेनान्नादिना खर्गादेः सिद्धौ गम्य
३४