________________
२६४
सिद्धान्तकौमुद्याम् स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्कापक्वतण्डुलेष्विव गतागतग्रामेषु बैलक्षण्यमुपलभ्यते । करोतिरुत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छयनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ॥ सकर्मकाणां प्रतिषेधो वक्तव्यः * ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति । दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् * ॥ न दुहस्नुनमा यचिणौ ।३।१८९ ॥ एषां कर्मकर्तरि यचिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥ अचः कर्मकर्तरि ३३११६२॥ अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥ दुहश्च ३॥१॥ ६३॥ अदोहि । पक्षे क्सः । लुग्वेति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते ॥ सृजियज्योः श्यंस्तु * ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्च श्यन्वाच्य इत्यर्थः ॥ सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम् * ॥ सृज्यते स्रजं भक्तः । श्रद्धया . निष्पादयतीत्यर्थः ॥ असर्जि ॥ युज्यते ब्रह्मचारी योगम् ॥ भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् * ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्किणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीट । गिरते । अगीट । आद्रियते । आहत । किरादिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥ न रुधः ॥३॥१३४॥ अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौगोपेन ॥ तपस्तपःकर्मकस्यैव ।३।११८८ ॥ कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे चेति चिनिषेधात्सिच् । अतप्त । तपःकर्मकस्येति किम् । उत्तपति सुवर्ण सुवर्णकारः ॥ न दुहनुनमां यक्किणौ ॥ प्रस्नुते । प्रास्ताविष्ट । प्रास्त्रोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यकिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञामुपसंख्यानम् ॥ * ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति ॥ णिश्रन्थिग्रन्थिब्ञात्मनेपदाकर्मकाणामुपसंख्यानम् * ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यकिणोः प्रतिषेधाच्छपचडौ । श्रन्थिग्रन्थ्योराधृषीयत्वाणिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । ऊयादिकयोस्तु । श्रश्नीते प्रश्नीते खयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणोऽकर्मकाचेति तङ् । अन्त
FHHHHHHHHHH