________________
तिङन्ते कर्मकर्तृप्रक्रिया ।
२६३
1
“दीर्घग्रहणं मास्तु" इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिप्यते । शमयिष्यते । यङन्ताणिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताचिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तत्वाभावे शम्यते मुनिना || नोदात्तोपदेशस्य मान्तस्यानाच मेः | ७|३|३४ ॥ उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि || अनाचमिकमि - वमीनामिति वक्तव्यम् * ॥ चिणि आयादय इति णिङभावे । अकामि । णिणिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योरिति न वृद्धिः । अवधि । जाग्रोऽविचिण्णलङित्वित्युक्तेर्न गुणः । अजागारि ॥ भञ्जेश्व चिणि । ६| ४ | ३३ ॥ नलोपो वा स्यात् । अभाजि । अभञ्जि || विभाषा चिण्णमुलोः | ७|१|६९ ॥ लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थित विकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीवाम् || बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः ॥ गौर्दुद्यते पयः । अजा ग्रामं नीयते । हियते । कृप्यते । उद्यते । बोध्यते माणवकं धर्मः । माणवको धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ॥ ॥ इति भावकर्मप्रक्रिया ॥
यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते । खव्यापारे खतन्त्रत्वात् । तेन पूर्वं करणत्वादिसत्त्वेऽपि संप्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिश्छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका अपि प्रायेणाकर्मकास्तेभ्यो भावे कर्तरि च लकाराः । पच्यते ओदनेन । भिद्यते काष्ठेन । कर्तरि तु ॥ कर्मवत्कर्मणा तुल्यक्रियः | ३ | १|८७ ॥ कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिणचिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं लिङ्याशिष्यङिति द्विलकारकाल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलर्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो मा भूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः
१ अयमपपाठः । अहिडि अहीडीति रूपार्थं तस्यावश्यकत्वात् ॥