________________
२६२
सिद्धान्तकौमुद्याम् विषाताम् । अस्तोषाताम् । गुणोर्तीति गुणः । अर्थते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोतीत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । अनिदितामिति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते ॥ अयङिय विति ॥ शय्यते ॥ तनोतेर्यकि ।६।४।४४ ॥ आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते ॥ ये विभाषा ॥ जायते । जन्यते ॥ तपोऽनुतापे च ३३१॥६५॥ तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा का अशोचीत्यर्थः । घुमास्थतीत्वम् । दीयते । धीयते । आदेच इत्यत्राशितीति कर्मधारयादिसंज्ञकशकारादौ निषेधः । एश आदिशित्त्वाभावान्नतस्मिन् आत्वम् । जग्ले ॥ आतो युक् चिण्कृतोः ७३३३३ ॥ आदन्तानां युगागमः स्याच्चिणि निति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाध्वोरिच्च । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । हन्यते । अचिण्णलोरित्युक्तेर्हनस्तो न । हो हन्तेरिति कुत्वम् । घानिता । हन्ता । घानिप्यते । हनिष्यते । आशीलिङि वधादेशस्यापवादश्चिण्वद्भावः आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति बाच्यम् । अङ्गस्येत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटीत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिप्यते । ग्रहीष्यते । ग्राहिषीष्ट । अहिषीष्ट । अग्राहि । अग्राहिषाताम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरते ङि ध्वमि चतुरधिकं शतम् । तथा हि । चिण्वदिटो दी| नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वृतो वेति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोरिति विकल्पत्वादिडभावे उश्चेति कित्त्वम् । रपरत्वं हलि चेति दीर्घः । इणः षीध्वमिति नित्यं ढत्वम् । अगी?म् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति ॥ इड् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शम्यते मोहो मुकुन्देन ॥ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।६।४। ९३ ॥ चिण्परे णमुल्परे च णौ मितामुपधाया दी? वा स्यात् । प्रकृतो मितां हख एव तु न विकल्पितः । ण्यन्ताण्णौ हखविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । हखविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यषष्टभ्य द्विर्वचनसवर्णानुखारदीर्घजश्वरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः ।