________________
२६०
सिद्धान्तकौमुद्याम् मिथ्योपपदात्किम् । पदं सुष्टु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति ॥ स्वरितत्रितः कञभिप्राये क्रियाफले ॥१॥३॥७२॥ यजते । सुनुते । कञभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ॥ अपारदः।१।३।७३ ॥ न्यायमपवदते । कर्त्रभिप्राय इत्येव । अपवदति ॥ णिचश्च ।१।३।७४ ॥ कारयते ॥ समुदाभ्यो यमोऽग्रन्थे ।१॥३॥ ७५ ॥ अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ॥ अनुपस
ईज्ज्ञः ।१।३३७६॥ गां जानीते । अनुपसर्गात्किम् । खर्ग लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरिणामः ॥ विभाषोपपदेन प्रतीयमाने ।।३।७७ ॥ खरितजित इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । खं यज्ञं यजति यजते वा। खं कटं करोति कुरुते वा । खं पुत्रमपवदति अपवदते वा। खं यज्ञं कारयति कारयते वा । खं व्रीहिं संयच्छति संयच्छते वा । खां गां जानाति जानीते वा ॥
॥ इत्यात्मनेपदम् ॥ शेषात्कर्तरि परस्मैपदम् ।।३।७८॥ अत्ति ॥ अनुपराभ्यां कृतः।१।३१७९॥ कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणेत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् इत्यतः शेषादित्यतश्च कर्तृग्रहणद्वयमनुवर्त्य कतैव यः कर्ता न तु कर्मकर्ता तत्रेति व्याख्येयम् ॥ अभिप्रत्यतिभ्यः क्षिपः ।१।३३८०॥ क्षिप प्रेरणे । खरितेत् । अभिक्षिपति ॥ प्राद्वहः । ११३२८१॥ प्रवहति ॥ परेम॒षः ।१॥३२८२॥ परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥ व्यापरिभ्यो रमः ।।३।८३ ॥ विरमति ॥ उपाच्च ।१।३३८४ ॥ यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥ विभाषाऽकर्मकात् ।१।३३८५॥ उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥ बुधयुधनशजनेमुद्रसुभ्यो णेः ॥१॥३॥८६॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्चेत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥ निगरणचलनार्थेभ्यश्च ।११३८७॥ निगारयति । आशयति । भोजयति । चलयति । कम्पयति ॥ अदेः प्रतिषेधः * ॥ आदयते देवदत्तेन । गतिबुद्धीति कर्मत्वमादिखाद्योर्नेति प्रतिषिद्धम् । निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषादित्यक-भिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥ अणावकर्मकाञ्चित्तवत्कर्तृकात् ।।३।८८ ॥ ण्यन्तात्परस्मैपदं स्यात् । शेते