________________
तिङन्ते आत्मनेपदप्रक्रिया ।
२५९
देवदत्तं प्रतिशुश्रूषते ॥ शदेः शितः । १।३।६० ॥ म्रियतेर्लुङ्गलिङोश्च | १|३।६१ ॥ व्याख्यातम् ॥ पूर्ववत्सनः । १।३।६२ ॥ सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते। शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः, लिङ्गसिचोरिति सूत्रद्वये सन नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति ॥ आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य । १।३।६३ || एधांचक्रे । प्रोपाभ्यां युजेरयज्ञपात्रेषु ||३|६४ ॥ प्रयुङ्क्ते । उपयुङ्क्ते ॥ खराद्यन्तोपसर्गादिति वक्तव्यम् * ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वं न्यचि पात्राणि प्रयुनक्ति ॥ समः क्ष्णुवः । १।३।६५ ॥ संक्ष्णुते शस्त्रम् ॥ भुजोऽनवने | १|३|६६ || ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥ णेरणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने |१| ३ |६७ ॥ ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्म कारकं स चेण कर्ता स्यादनाध्याने । णिचश्चेति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेति विकल्पेऽणावकर्मकादिति परस्मैपदे च परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते ॥ कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमणिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुर्थ्योश्च तुल्योऽर्थः । तत्र तृतीयकक्षायां न तङ् । क्रियासा -
start कर्मकारस्य णौ कर्तृत्वाभावात् । चतुर्थ्यां तु त । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एवमारोहयते हस्तीत्यप्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्या रोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाणिच् । दर्शयति भवः । आरोह हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोर्द्वयोरपि प्रेषणयोस्त्यागे । दर्शयते । आरोहयते । इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षे द्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाणिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मर वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये | १|३|६८ || व्याख्यातम् ॥ गृधिवयोः प्रलम्भने । १।३।६९ ।। प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः ॥ लियः संमाननशालीनीकरणायोश्च | १|३|७० ॥ व्याख्यातम् ॥ मिथ्योपपदात्कृञोSभ्यासे |१| ३|७१ || रित्येव । पदं मिथ्या कारयते । खरादिदुष्टमसकृदुच्चारयतीत्यर्थः ।