________________
२५८
। सिद्धान्तकौमुद्याम् स्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपनामति । आगच्छतीत्यर्थः ॥ अनुपसर्गाद्वा ।१।३३४३ ॥ कामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥ अपहवे ज्ञः॥१॥३॥४४॥ शतमपजानीते । अपलपतीत्यर्थः ॥ अकर्मकाच्च ।।३।४५॥ सर्पिषो जानीते । सर्पिषा उपायेन प्रवर्तते इत्यर्थः ॥ संप्रतिभ्यामनाध्याने ।।३।४६॥ शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभज्यते । तत्सामर्थ्यादकमकाच्चेति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ॥ भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।१।३।४७ ॥ उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥ व्यक्तवाचां समुच्चारणे ।१॥३॥४८॥ मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥ अनोरकर्मकात् ।।३।४९॥ व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तवाचां किम् । अनुवदति वीणा ॥ विभाषा विप्रलापे ।१॥३॥ ५०॥ विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ॥ अवादः।१३॥५१॥ अवगिरते । गृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥ समः प्रतिज्ञाने ।१॥३॥५२॥ शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥ उदश्वरः सकर्मकात् ।।३।५३ ॥ धर्ममुच्चरते । उल्लङ्घय गच्छतीत्यर्थः । सकर्मकात्किम् । बाप्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥ समस्तृतीयायुक्तात् ।।३॥५४॥ रथेन संचरते ॥ दाणश्च सा चेचतुर्थ्यर्थे ।१॥३५५॥ संपूर्वादाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥ उपाद्यमः खकरणे ॥१॥३॥५६ ॥ खकरणं खीकारः । भार्यामुपयच्छते ॥ विभाषोपयमने ।१।२।१६॥ यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥ ज्ञाश्रुस्मृदृशां सनः ।१।३३५७ ॥ सन्नन्तानामेषां प्राग्वत् । धर्म जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥ नानोर्शः।१।३।५८ ॥ पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । अनन्तरस्येति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सन इति तङ् । अकर्मकाचेति केवलाद्विधानात् ॥ प्रत्याभ्यां श्रुवः ।३२५९ ॥ आभ्यां सन्नन्ताच्छूव उक्तं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रवचनीयात्स्यादेव ।