________________
तिङन्ते आत्मनेपदप्रक्रिया ।
२५७ वाच्यम् * ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहते ॥ उपसर्गाद्रस्व ऊहतेः।४।२३ ॥ यादौ किति । ब्रह्म समुह्यात् । अमि समुह्य ॥ निसमुपविभ्यो ह्वः।१॥३॥३०॥ निह्वयते ॥ स्पर्धायामाङः॥१॥३॥३१॥ कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृतः ।१३॥३२॥ गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । तेषु सहसा प्रवर्तते । एधो दकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुते । एषु किम् । कटं करोति ॥ अधेः प्रसहने ।१॥३॥३३ ॥ प्रसहनं क्षमाभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ॥ वेः शब्दकर्मणः ।।३॥३४॥ खरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥ अकर्मकाच ।१।३३३५ ॥ वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ॥ संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥१॥३॥३६ ॥ अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्त्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन खसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थ विनियुक्त इत्यर्थः ॥ कर्तृस्थे चाशरीरे कर्मणि ।।३।३७ ॥ नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात्वरितञित इत्येक सिद्धे नियमार्थमिदम् । तेनेह न । गहुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ॥ वृत्तिसर्गतायनेषु क्रमः१॥३॥३८॥ वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥ उपपराभ्याम् । श३॥३९॥ वृत्त्यादिष्वाभ्यामेव क्रमेन तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ॥ आङ उद्गमने ।१॥३॥४०॥ आक्रमते सूर्यः । उदयते इत्यर्थः । ज्योतिरुगमन इति वाच्यम् * ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥ वेः पादविहरणे ।
२३॥४१॥ साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥ प्रोपाभ्यां समर्थाभ्याम् ॥१॥३॥४२॥ समर्थो तुल्यार्थौ । शकन्ध्वादि