________________
२५६
सिद्धान्तकौमुद्याम् कथं तर्हि, स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरखतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः सुन्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ वा लिप्सायामिति वक्तव्यम् * ॥ भिक्षुकः प्रभुमुपतिष्ठते उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥ अकर्मकाच ।१।३।२६ ॥ उपात्तिछतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥ उद्विभ्यां तपः ।१।२२७॥ अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ॥ स्वाङ्गकर्मकाचेति वक्तव्यम् * ॥ खमङ्गं खाङ्गं नतु अद्रवमिति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चैत्रो मैत्रस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः । आङो यमहनः ।।३।२८ ॥ आयच्छते । आहते । अकर्मकात्खाङ्गकर्मकादित्येव । नेह । परस्य शिर आहन्ति । कथं तर्हि, आजघ्ने विषमविलोचनस्य वक्ष इति भारविः । आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयकम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा समीपमेत्येति वा ॥ आत्मनेपदेष्वन्यतरस्याम् ।
।४।४४ ॥ हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥ हनः सिन् ।१२।१४ ॥ कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥ यमो गन्धने ।१२।१५॥ सिच् कित्स्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायते । गन्धने किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥ समो गम्युच्छिभ्याम् ।।३।२९ ॥ अकर्मकाभ्यामित्येव । संगच्छते ॥ वा गमः।।२।१३ ॥ गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्ट । संगसीष्ट । समगत । समगस्त । समृच्छिप्यते । अकर्मकाभ्यां किम् । ग्रामं संगच्छति । विदिप्रच्छिखरतीनामुपसंख्यानम् * ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥ वेत्तेर्विभाषा ७१७॥ वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संविद्रताम् । संविदताम् । समविद्रत । समविदत । संपृच्छते । संखरते ॥ अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् * ॥ अर्तीति द्वयोहणम् । अधिौ त्वियर्ते रेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समा(ताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु मा समरत । मा समरेताम् । मा समरन्त । समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा इति कथयन्य इति । अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् शृणु ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १ ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्न यः संशृणुते स किंप्रभुः ॥ उपसर्गादस्यत्यूयोर्वेति
THHHHTHHALPHTOTHE