________________
तिङन्ते आत्मनेपदप्रक्रिया।
२५५ नेर्विशः।१॥३॥१७॥ निविशते॥ परिव्यवेभ्यःक्रियः ।।३।१८॥ अकर्बभिप्रायार्थमिदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥ विपराभ्यां जेः॥१॥३॥१९॥ विजयते । पराजयते ॥ आङो दोऽनास्यविहरणे ।।३।२० ॥ आयूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात् । विद्यामादत्ते । अनास्येति किम् । मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति ॥ पराङ्गकर्मकान्न निषेधः * ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ क्रीडोऽनुसम्परिभ्यश्च ।१।३।२१ ॥ चादाङः । अनुक्रीडते । संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेण समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थ इत्यनोः कर्मप्रवचनीयत्वम् ॥ समोऽकूजने * ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥ आगमेः क्षमायाम् * ॥ ण्यन्तस्येदं ग्रहणम् । आगमयख तावत् । मा त्वरिष्ठा इत्यर्थः ॥ शिक्षेर्जिज्ञासायाम् * ॥ धनुषि शिक्षते । धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ आशिषि नार्थः * ॥ आशिष्येवेति नियमार्थ वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मेस्यादित्याशास्ते इत्यर्थः । कथं तर्हि नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् ॥ हरतेर्गतताच्छील्ये ॥ * गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः ॥ पितुर्मातुश्च गतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् । मातुरनुहरति ॥ किरतेहेर्पजीविकाकुलायकरणेष्विति वाच्यम् * ॥ हर्षादयो विषयाः । तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥ अपाच्चतुष्पाच्छकुनिष्वालेखने ।६।१।१४२॥ अपात्किरतेः सुट् स्यात् । सुडपि हर्षादिष्वेव वक्तव्यः * ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयार्थी च । हर्षादिष्विति किम् । अपकिरति कुसुमम् । इह तसुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावान्नेष्यत इत्याहुः । गजोऽपकिरति ॥ आङि नुप्रच्छयोः * ॥ आनुते । आपृच्छते ॥ शप उपालम्भे * ॥ आक्रोशार्थात्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥ समवप्रविभ्यः स्थः ।१॥३॥२२॥ सन्तिष्ठते । स्थाध्वोरिच्च । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते ॥ आङः प्रतिज्ञायामुपसंख्यानम् * ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीते इत्यर्थः ॥ प्रकाशनस्थयाख्ययोश्च ।। ॥२३॥ गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः। कर्णादीन्निणेतृत्वेनाश्रयतीत्यर्थः ॥ उदोऽनूर्ध्वकर्मणि शश२४ ॥ मुक्तावुत्तिष्ठते । अनूर्वेति किम् । पीठादुत्तिष्ठति ॥ ईहायामेव * ॥ नेह । ग्रामाच्छतमुत्तिष्ठति ॥ उपान्मन्त्रकरणे ।।३।२५ ॥ आमेय्याऽऽग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन ॥ उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् * ॥ आदित्यमुपतिष्ठते ।
१ इदं वार्तिकं सूत्रेषु कैश्चित्प्रक्षिप्तम् ॥