________________
तिङन्ते कण्डादयः ।
२५३ रूपमाहुः । विद्वांसमाचष्टे विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणे नेत्येके । संप्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाडिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चमाचष्टे उदीचयति । उदैचिचत् । । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्ण इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । सम्यचिचत् । समिअचिचत् । तिर्यञ्चमाचष्टे । तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्रेति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाहखो न । अतितिरायत् । सध्यञ्चमाचष्टे सध्राययति । अससध्रायत् । विष्वद्यञ्चम् , अविविष्वद्रायत् । देवद्यञ्चम् , देवद्राययति । अदिदेवद्रायत् । अदयञ्चम् , अददद्रायत् । अदमुयञ्चम् , अदमुआययति । आददमुआयत् । अमुमुयञ्चम् , अमुमुआययति । चङ् । आमुमुआयत् । भुवं भावयति । अबीभवत् । ध्रुवम् । अबुभ्रवत् । श्रियम् । अशिश्रयत् । गाम् । अजूगवत् । रायम् अरीरयत् । नावम् अनूनवत् । खश्वम् खाशश्वत् । खः । अव्ययानां भमात्रे टिलोपः । खयति । असिखत् असखत् । बहून् भावयति बहयतीत्यन्ये । विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमती श्रीमन्तं वा श्राययति । अशिश्रयत् । पयस्विनीम् पयसयति । इह टिलोपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलम् स्थवयति । दूरम् दवयति । कथं तर्हि दूरयत्यवनते विवखतीति । दूरमतति अयते वा दूरात् । दूरातं कुर्वतीत्यर्थः । युवानं यवयति । कनयति । युवाल्पयोरिति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथकृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्थिरं स्थापयति । स्फिरं स्फापयति । उहं वरयति । वारयति । बहुलं बयति । गुरुं गरयति । तृपं त्रापयति । दीर्घ द्राघयति । वृन्दारकं वृन्दयति ॥
॥ इति नामधातुप्रक्रिया ॥ कण्डादिभ्यो यक् ।।१।२७॥ एभ्यो धातुभ्यो नित्यं यक् स्यात् खार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः । धातवः प्रातिपदिकानि च ॥ कण्डू गात्रविघर्षणे ॥ कण्डूयति । कण्डूयते ॥ १॥ मन्तु अपराधे ॥ रोष इत्येके । मन्तूयति ॥ चन्द्रस्तु जितमाह । मन्तूयते ॥ २ ॥ वल्गु पूजामाधुर्ययोः । वल्गूयति ॥३॥ असु उपतापे ॥ असू असूञ् इत्येके ॥ अस्यति । असूयति । असूयते ॥ ५॥ लेट लोट् धौत्र्ये पूर्वभावे स्वप्ने च ॥ दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता ॥७॥ लेला दीप्तौ ॥ ८॥ इरस इरज् इरञ् ईर्ष्यायाम् ॥ इरस्यति । इरज्यति । हलि चेति दीर्घः । ईर्यति । ईर्यते ॥ ११ ॥ उषस् प्रभातीभावे ॥ १२ ॥ वेद धौर्ये खप्ने च ॥ १३ ॥ मेधा आशुग्रहणे ॥ मेधायति ॥ १४ ॥ कुषुभ क्षेपे ॥ कुषुभ्यति ॥१५॥ मगध परिवेष्टने ॥ नीचदास्य इत्यन्ये ॥ १६ ॥ तन्तस् पम्पस् दुःखे ॥ १८ ॥