________________
२५२
सिद्धान्तकौमुद्याम्
करोतीत्यर्थः । समबभाण्डत || चीवरादर्जने परिधाने च * ॥ सञ्चीवरयते भिक्षुः । चीव - राण्यति परिधत्ते वेत्यर्थः ॥ मुण्डमिश्र श्लक्ष्णलवणव्रतवस्त्र हलकलकृततूस्तेभ्यो णिच् । ३।१।२१ ॥ कृञर्थे । मुण्डं करोति मुण्डयति ॥ व्रताद्भोजनतन्निवृत्त्योः * ॥ पयः शूद्रान्नं वा व्रतयति ॥ वस्त्रात्समाच्छादने * ॥ संवस्त्रयति । हल्यादिभ्यो ग्रहणे * || हलिकल्योरदन्तत्वं च निपात्यते । हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति कृतयति । तूस्तानि विहन्ति वितस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाशेत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धे केषांचिग्रहणं सापेक्षेभ्योऽपि र्थम् । माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ॥ अर्थवेदयोरप्यापुग्वक्तव्यः * ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोतीति षः। अभ्यषेणयत् । प्राक्सितादिति षः । अभिषिषेणयिषति । स्थादि - ष्वभ्यासेन चेति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे । घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति ॥ इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुं म्रदयति । अमिम्रदत् । अमम्रदत् । भृशं कृशं दृढम् । भ्रशयति । ऋशयति । द्रढयति । अबभ्रशत् । अचऋशत् । अदत् । परित्रढयति । पर्यवदत् । ऊढिमाख्यत् औजिदत् । ढत्वादीनामसिद्धस्वात् हतिशब्दस्य द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडित् । ऊढमाख्यत् औजढत् । औडदत् । ओः पुयण्जीतिसूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् ॥ प्रकृत्यैकाच् । वृद्धिपुकौ । खापयति । त्वां मां वाssचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः । वृद्धिः । पुक् । त्वादयति, मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाजिति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमतव्यम् । भाष्यस्य प्रेष्ठाद्युदाहरण विषयेऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धित इति टिलोपः । प्रकृतिभावस्तु न । येन नाप्राप्ति - न्यायेन टेरित्यस्यैव बाधको हि सः । भत्वात्संप्रसारणम् । अन्ये तु नस्तद्धित इति नेहाति - दिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वाट्टेरित्यस्यैव प्रवृत्तेः । तेन शुनयतीति
1