________________
तिङन्ते नामधातुप्रक्रिया ।
२५१ चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति पाष्ठे स्थितम् ॥ लोहितादिडाज्भ्यः क्यष् ।३।१।१३ ॥ लोहातादिभ्यो डाजन्ताच भवत्यर्थे क्यष् स्यात् ॥ वा क्यषः ।।३।९०॥ क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति । लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणम् । न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् ॥ लोहितडाभ्यः क्यषवचनं भृशादिष्वितराणीति * ॥ न चै काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विना पीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तु, लोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥ कष्टाय क्रमणे।३।१।१४॥ चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते। पापं कर्तुत्सहत इत्यर्थः । सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् * ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्खपदविग्रहः । सत्रायते । कक्षायते । इत्यादि ॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ।३।१।१५॥ रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ॥ हनुचलन इति वक्तव्यम् * ॥ चर्वितस्याकृष्य पुनश्चर्वण मित्यर्थः । नेह । कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदनातीत्यर्थ इति कैयटः । वर्तुलं करोतीत्यर्थ इति न्यासकारहरदत्तौ ॥ तपसः परस्मैपदं च * ॥ तपश्चरति तपस्यति ॥ बाष्पोष्मभ्यामुद्वमने ।३।१।१६ ॥ आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाप्पायते । ऊष्मायते ॥ फेनाचेति वाच्यम् * ॥ फेनायते ॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ।३१।१७॥ एभ्यः कर्मभ्यः करोत्यर्थे क्य स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥ सुदिनदुर्दिननीहारेभ्यश्च * ॥ सुदिनायते ॥ सुखादिभ्यः कर्तृवेदनायाम् ।३।१।१८॥ सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः । सुखं वेदयते सुखायते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥ नमोवरिवश्चित्रङः क्यच् । ३।१।१९ ॥ करणे इत्यनुवृतेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥ पुच्छभाण्डचीवराणि ॥३॥१॥२०॥ पुच्छादुदसने व्यसने पर्यसने च * ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ॥ भाण्डात्समाचयने * ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशी