________________
२५०
सिद्धान्तकौमुद्याम् सञ्जनार्थम् । तत्र किबनूद्यते । प्रातिपदिकग्रहणादिह सुप इति न संबध्यते तेन पदकार्य न । कृष्ण इवाचरति कृष्णति । अतो गुण इति शपा सह पररूपम् । अ इवाचरति अति । अतः । अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे । अत आदेरिति दीर्घः । णल औ वृद्धिः । अतुसादिषु त्वातो लोप इटि चेत्याल्लोपः ॥ मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा विप् । मालांचकार । लङि अमालात् । अत्र हलङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सको । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचि वृद्धिरित्यत्र धातोरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । माधवस्तु नामधातोरपि वृद्धिमिच्छति । अकवायीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्थेति भुवो वुगिति भवतेर इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । दुरिव द्रवति । णिश्रीति चङ् न । अद्रावीत् ॥ अनुनासिकस्य किझलो: विति ।६।४।१५॥ अनुनासिकान्तस्योपधाया दीर्घः स्यात् कौ झलादौ च कृिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिव देवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतोलोपाञ्चक इति रूपमाह । ख इव खति । सखौ । सख । यत्तु खामी खांचकारेति तदनाकरमेव ॥ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।३।१।१२ ॥ अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति । भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क भवन्तीत्यर्थः । सुमनस् अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियत इति । तेन मनश्शब्दात्प्रागट् । खमनायत उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं च आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे पाष्ठं वार्तिकं तद्भाप्यं च प्रमाणम् । तथा हि ॥ उस्योमाक्ष्वाटः प्रतिषेधः * ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्चेति
HTHHTHHALLETER