________________
तिङन्ते नामधातु प्रक्रिया ।
२४९ त्येव । नेह । दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङ् - ऋतः । कर्त्रीयति ।। क्यच्व्योश्च ॥ गार्गीयति । वात्सीयति । अकृत्सार्वेति दीर्घः । कवीयति । समिध्यति ॥ क्यस्य विभाषा |६|४|५० || हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य । अतो लोपः । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥ मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न * ॥ किमिच्छति । इदमिच्छति । खरिच्छति ॥ अशनायोदन्यधनायावुभुक्षापिपासागर्धेषु |७|४|३४ ॥ क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति || अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि | ७|११५१ ॥ एषां क्यचि असुगागमः स्यात् । अश्ववृषयो मैथुनेच्छायाम् * ॥ अश्वस्यति वडवा । वृषस्य गौः ॥ क्षीरलवणयोर्लालसायाम् * ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः । सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति ॥ काम्यच्च |३|१|९ ॥ उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । यस्य हल इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् | यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥ उपमानादाचारे |३|१|१० ॥ उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्री - यति छात्रम् । विष्णूयति द्विजम् ॥ अधिकरणाच्चेति वक्तव्यम् * ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रासादे ॥ कर्तुः क्ाङ् सलोपश्च । ३|१|११ ॥ उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्गसन्नियोगशिष्टः । स च व्यवस्थितः ॥ ओजसोऽप्सरसो नित्यमितरेषां विभाषया ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्विति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ्मानिनोश्च ॥ कुमारीवाचरति कुमारायते । हरिणीवाचरति हरि - तायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्टीयाविव पट्टीमृदूयते ॥ न कोपधायाः ॥ पाचिकायते ॥ आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः * ॥ वाग्रहणात् क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अवगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अवगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ॥ सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः * ॥ पूर्ववार्तिकं तु अनुबन्धा
1
३२