________________
२४८
सिद्धान्तकौमुद्याम् जऍधीति ३ । जर्गर्द्धि ३ । जगुद्धः ३ । जगुंधति ३ । जधीषि ३ । जर्घसि ३ । अजगुंधीत् ३ । इडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचा । अजर्घ ३ । अजगुद्धाम् ३ । सिपि दश्चेति पक्षे रुत्वम् । अजर्घाः ३ । अजर्ग/त् ३ । अजगद्दिष्टाम् ३ । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्येति संप्रसारणं न भवति । श्तिपा निर्देशात् । च्छोः शूडिति शः । श्चेति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पापः । पाप्रश्मः । यकारवकारान्तानां तूठभाविनां यङ्लुङ् नास्तीति च्छोरिति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छोरिति यत्रो तद्विषयकम् । ज्वरत्वरेत्यूठभाविनोः सिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । माधवादिसंमतं च । मव्य बन्धने । अयं यान्त उठ्भावी । तेवृ देव देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यज्ञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाह-ति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥ ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।६।४।२०॥ ज्वरादीनामुपधावकारयोरूट् स्यात् कौ झलादावनुनासिकादौ च प्रत्यये । अत्र कितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तते । अवतर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । अमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥ राल्लोपः।६।४।२१॥ रेफात्परयोश्छोर्लोपः स्यात् कौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः लघूपधगुणः ॥ न धातुलोप आर्धधातुके ।१।१४॥ धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । हलि चेति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मूर्छा । मोमूीति । मोमोर्ति । मोमूर्तः । मोमूर्च्छतीत्यादि । आर्धधातुक इति विषयसप्तमी। तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्गास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृतेः ॥ ॥ इति यलुगन्तप्रक्रिया ॥
. सुप आत्मनः क्यच् ।३।१८॥ इषिकर्मणः एपितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥ क्यचि च ।४।३३ ॥ अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये । गव्यति । नाव्यति । लोपः शाकल्यस्येति तु न । अपदान्तत्वात् । तथा हि ॥ नः क्ये ।१।४।१५॥ क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो ने । गव्यांचकार । गव्यिता । नान्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च । गीर्यति । पूर्यति । धातोरि