________________
२४७
तिङन्ते यङ्लुगन्तप्रक्रिया । हन इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्येति तपरत्वान्न गुणः । हलि चेति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चरति । अचञ्चुरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसनेत्यात्वम् । चलातः । गमहनेत्युपधालोपः । चङ्नति ।। चलाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचलाताम् । अच
ख्नुः । ये विभाषा । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिरित्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतो वृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः । जाहीतः । इह जहातेश्च आचहौ लोपोयि घुमास्था एर्लिङीत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीहि । अजाहेत् । अजाहात् । अजाहीताम् । अजाहुः । जाहीयात् । आशिषि । जाहायात् । अजाहासीत् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात्स्वपिस्यमीत्युत्वं न । रुदादिभ्य इति गणनिर्दिष्टत्वादिण्न । साखपीति । साखप्ति । सास्वप्तः । साखपति । असावपीत् । असावप् । सास्वप्यात् । आशिषि तु वचिखपीत्युत्वम् । सासुप्यात् । असाखापीत् । असाखपीत् ॥ रुग्रिको च लुकि ४९१ ॥ ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥ ऋतश्च ७४९२॥ ऋदन्ताद्धातोरपि तथा । वर्वतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः ३ । वर्वृतति ३ । वर्वर्तामास ३ । वर्वर्तिता ३ । गणनिर्दिष्टत्वान्न वृद्भ्यश्चतुर्थ्य इति न । वर्वर्तिष्यति ३ । अवतीत् ३ । अवर्वत् ३ । सिपि दश्चति रुत्वपक्षे रोरि । अवर्वाः ३ । गणनिर्दिष्टत्वादङ् । अवतीत् ३ । चर्करीति ३ । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कतः । ३ । चक्रति ३ । चर्करांचकार ३ । चर्करिता ३ । अचर्करीत् ३। अचर्कः ३ । चर्कयात् ३ । आशिषि रिङ् । चर्कियात् ३ । अचर्कारीत् ३। ऋतश्चेति तपरत्वान्नेह । कृ विक्षेपे । चाकर्ति । तातति । तातीर्तः । तातिरति । तातीहि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिःशेषः । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्ण इति इयङ् । अरर्ति । अरियति । अररीति । अरियरीति । अर्ऋतः । अरिय॒तः । झि अत् । यण् । रुको रोरीति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धे तन्निषेधात् । आरति । आरिग्रति । लिङि श्तिपा निर्देशाद्गुणोतीति गुणो न । रिङ् । रलोपः। दीर्घः । आरियात् । अरिग्रियात् । आरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति ३ । जर्गढि ३ । जगढः ३ । जर्गृहति ३ । अजघट्ट ३ । गृह्णातेस्तु जाग्रहीति । जाग्राढि ॥ तसादौ डिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्न रुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि जाग्रहिता । ग्रहोऽलिटीति दीर्घस्तु न। तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह । तद्भाष्यविरुद्धम् ।