________________
२४६
सिद्धान्तकौमुद्याम्
ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्रात्वसन्तस्येति दी? न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न । अनुदात्तङित इत्यनुबन्धनिर्देशात् । तत्र श्तिपा शपेति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यदादौ पाठाच्छपो लुक् ॥ यङो वा ।७३९४ ॥ यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्या स्यात् । भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात् । द्विःप्रयोगो द्विर्वचनं षाष्ठमिति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्वक् । अबोभूवुः । अबोभविष्यदित्यादि। पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्सि । हुझलभ्यो हेर्धिः । पास्पर्धि । लङ् । अपार्फत् । अपास्पर्दु । सिपि दश्चेति ष्टुत्वपक्षे रोरि । अपास्पाः । जागाद्धि । जागाधीति । जाघत्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथ । नानात्ति । नानात्तः । दध । दादद्धि । दादद्धः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति मोमोदांचकार । मोमोदिता । अमो मुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः। अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लुङ् तिप् । अचोकू । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेशेत्यनुनासिकलोपः । जङ्गतः । जङ्ग्मति । म्वोश्च । जङ्गन्मि । जङ्गन्वः । एकाग्रहणेनोक्तत्वान्नेनिषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लक् । जङ्गहि ॥ मो नो धातोः ॥ अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । हयन्तेति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्यङ्लुक् । अभ्यासाच्चति कुत्वं यद्यपि हो हन्तेरित्यतो हन्तेरित्यनुवर्त्य विहितं तथापि यङ्लुकि भवत्येवेति न्यासकारः । श्तिपा शपेति निषेधस्त्वनित्यः । गुणो यङ्लुकोरिति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जनति । जवनिता । श्तिपा निर्देशाज्जादेशो न । जवहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तुं वध्यात् । अवधीत् । अवधिष्टामित्यादि ॥ वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आपूर्वात्तु आङो यम
HHHHHHHHHHHHH