________________
तिङन्ते यङ्लुगन्तप्रक्रिया ।
२४५ यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशासिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्त्वान्नोपधागुणः । बेभिदिता ॥ नित्यं कौटिल्ये गतौ ।३।१।२३ ॥ गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥ लुपसदचरजपजभदहदशगृभ्यो भावगहायाम् ।३।१।२४॥ एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥ चरफलोश्च ॥४ ।८७॥ अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः नुगित्यनेनानुखारो लक्ष्यते ॥ स च पदान्तवद्वाच्यः * ॥ वा पदान्तस्येति यथा स्यात् ॥ उत्परस्याऽतः७४८८॥ चरफलोरभ्यासात्परस्यात उत्स्याद्ययङ्लुकोः । हलि चेति दीर्घः । चञ्चूर्यते चंचूर्यते । पम्फुल्यते पंफुल्यते ॥ जपजभदहदशभञ्जपशांच।७४।८६॥ एषामभ्यासस्य नुक् स्याद्यब्यङ्लुकोः । गर्हितं जपति जञ्जप्यते इत्यादि ॥ ग्रो यङि ।८।२।२० ॥ गिरते रेफस्य लत्वं स्याद्यङि । गहितं गिलति जेगिल्यते । घुमास्थतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः । शोशूयते । शेश्वीयते । यङि च । सास्मयते । रीङ् ऋतः । चेक्रीयते । सुट् । संचेस्क्रीयते ॥ सिचो यङि ।८।३।११२॥ सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥ न कवतेयङि ।।४।६३॥ कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥ नीग्वञ्चुलंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।७ ।४।८४ ॥ एषामभ्यासस्य नीगागमः स्याद्यब्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥ नुगतोऽनुनासिकान्तस्य ७४/८५॥ अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुखारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा । जाजायते । जञ्जन्यते । हन्तेहिंसायां यङि नीभावो वाच्यः * ॥ जेन्नीयते । हिंसायां किम् । जङ्घन्यते ॥ रीगृदुपधस्य च ४९०॥ ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्थाद्यब्यङ्लुकोः । वरीवृत्यते । शुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चिलीकूप्यते । रीगृत्वत इति वक्तव्यम् * ॥ वरीवृश्च्यते । परीपृच्छयते ॥ खपिस्यमिव्येनां यङि ।।१।१९ ॥ संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥ न वशः।६।२० ॥ वावश्यते ॥ चायः की।६।१।२१॥ चेकीयते ॥ ई घ्राध्मोः ॥४॥३१॥ जेघीयते । देध्मीयते ॥ अयडू यि विति ॥४॥२२॥ शीङोऽयङादेशः स्याद्यादौ किति परे । शाशय्यते । अभ्यासस्य हस्खः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥
॥ इति यङन्तप्रक्रिया ॥
यङोऽचि च ।।४७४ ॥ यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरीति परस्मैपदम् । अनुदात्तङित इति तु न ।