________________
२४२
सिद्धान्तकौमुद्याम् इट् । द्वित्वम् । सन्यतः । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घस्ल । एकाच उपदेश इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिवत्सति । ईर्ष्णतेस्तृतीयस्येति यिसनोर्द्वित्वम् । इष्यियिषति । इष्यिषिषति ॥ रुदविदमुषग्रहिखपिप्रच्छः संश्च ।।२।८ ॥ एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥ सनि ग्रहगुहोश्च ।१२।१२ ॥ ग्रहेणुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्येति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥ किरश्च पञ्चभ्यः ।७२।७५॥ कृ गृ दृङ् धृङ् प्रच्छ एभ्यः सन इट् स्यात् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति ॥ अत्रेटो दी? नेष्टः ॥ दिदरिषते । दिधरिषते । कथमुदिधीर्षुरिति । भौवादिकयोधूञोरिति गृहाण ॥ इको झलू ।।२।९॥ इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावान्मीनातिमिनोतीत्यात्वं न । अत एव सनि मीमेति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥ हलन्ताच ।१।२।१०॥ इक्समीपाद्धलः परो झलादिः सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्तिषते । हल्ग्रहणं जातिपरम् । तृन्हु । तितृक्षति । तिहिषति ॥ अज्झनगमां सनि ।६।४।१६ ॥ अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः । जिगीषति । विभाषा चेः । चिकीषति । चिचीषति । जिघांसति ॥ सनि च ।।४।४७ ॥ इणो गमिः स्यात्सनि न तु बोधने । जिगमिषति । बोधने प्रतीषिषति । इण्वदिकः । अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेवित्युक्तेर्नेट् । झलादौ सनीति दीर्घः । जिगांस्यते । अधिजिगांस्यते । अजादेशस्येत्युक्तेर्गच्छतेन दीर्घः । जिगंस्यते । संजिगंसते ॥ इङश्च ।।४।४८॥ इङो गमिः स्यात्सनि । अधिजिगांसते ॥ रलो व्युपघाद्धलादेः संश्च ।१।२।२६ ॥ उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्त्राप्योः संप्रसारणम् । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । लिलेखिषति । रलः किम् । दिदेविषति । व्युषधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि वित्वं गुणेन बाध्यते । उपधाकार्य हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षज्ञापकत्वात् ॥ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् ।।२।४९ ॥ इवन्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताचेति कित्त्वम् । छोरिति वस्य ऊन् । यण् द्वित्वम् । दुषति । दिदेविषति । स्तौतिण्योरेवेति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥ आपज्ञप्यधामीत् ।७।४।५५ ॥ एषामच ईत्स्यात्सादौ सनि ॥ अत्र लोपोऽभ्यासस्य ७४।५८ ॥ सनिमीमेत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चलम् । ईर्त्यति । अर्दिधि