________________
तिङन्ते सन्नन्तप्रक्रिया ।
२४१ र्नेह । कुश्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकी विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥ स्फायो वः ॥३॥४१॥णौ । स्फावयति ॥ शदेरगतौ तः ७३३४२॥ शदेी तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥ रुहः पोऽन्यतरस्याम् ॥३॥४३॥ णौ । रोपयति । रोहयति ॥ क्रीजीनां णौ ।।१४८॥ एषामेच आत्वं स्याण्णौ । कापयति । अध्यापयति । जापयति ॥ णौ च संश्चङोः ।।४।५१॥ सन्परे चङ्परे च णौ इङो गाड़ा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥ सिध्यतेरपारलौकिके ।।१॥४९॥ ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति शेधयति तापसं तपः ॥ प्रजने वीयते।६।१॥५५॥ अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भ ग्राहयतीत्यर्थः ॥ ऊदुपधाया गोहः ॥ गूहयति ॥ दोषो
णौ ।६।४।९० ॥ दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥ वा चित्तविरागे ।६।४।९१ ॥ विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां हखः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजृष् । जनयति । जरयति । ऋणातेस्तु । जारयति ॥ रञ्जी मृगरमणे नलोपो वक्तव्यः * ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु, रञ्जयति मृगान्तृणदानेन । चुरादिषु ज्ञपादिश्चिञ् ॥ चिस्फुरोरिति व आत्वम् । चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फरत् । अपुस्फुरत् । उभौ साभ्यासस्य ।८४।२१ ॥ साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥ णी गमिरबोधने ।२।४।४६॥ इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति । इण्यदिकः । अधिगमयति । हनस्तोऽचिण्णलोः । हो हन्तेरिति कुत्वम् । घातयति । ईर्ष्णयति । ईर्ण्यतेस्तृतीयस्यति वक्तव्यम् * ॥ तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीये त्वजादेर्द्वितीयस्येत्यपवादतया सन्नन्ते प्रवर्तते । ऐयियत् । ऐषिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादिःशेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृतेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकमकेषु सर्वेषाम् ॥ ॥ इति ण्यन्तप्रक्रिया ॥
धातोः कर्मणः समानकर्तृकादिच्छायां वा ।३।११७॥ इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् ।
३१