________________
२४०
सिद्धान्तकौमुद्याम् रणसामर्थ्यात् । औजिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥ रभेरशब्लिटोः १ ।६३ ॥ रभेर्नुम् स्यादचि न तु शब्लिटोः ॥ लभेश्च ।।१६४॥ अररम्भत् । अललम्भत् । हेरचङीति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम् । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥ विभाषा वेष्टिचेष्टयोः।४। ९६॥ अभ्यासस्यात्वं वा त्याच्चपरे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभासेत्यादिना वोपधाहखः । अबिभ्रजत् । अबभ्राजत् ॥ काण्यादीनां वेति वक्तव्यम् * ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड् भाष्ये उक्ताः । ह्रायिवाणिलोटिलोचयश्चत्वारोऽधिका न्यासे । चाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥ स्वापेश्चङि ।६।१।१८॥ ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ।। शाच्छासाह्राव्यावेपां युक् ७३३३७॥ णौ परे पुकोऽपवादः । शाययति । ह्वाययति ॥ ह्वः संप्रसारणम् ।६।१॥३२॥ सन्परे चपरे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥ लोपः पिबतेरीच्चाभ्यासस्य ७४४॥ पिबतेरुपधाया लोपः स्यादभासस्य ईदन्तादेशश्च चपरे णौ । अपीप्यत् । अर्तिहीति पुक् । अर्पयति । हेपयति । ब्लेपयति । रेपयति । यलोपः । नोपयति । क्षमापयति । स्थापयति ॥ तिष्ठतेरित् ।।४। ५॥ उपधाया इदादेशः स्याचपरे णौ । अतिष्ठिपत् ॥ जिघ्रतेर्वा ॥४॥६॥ अजिघ्रिपत् । अजिघ्रपत् ॥ उर्ऋत् ॥ अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अववर्तत् । अमीमृजत् । अममार्जत् । पातेो लुग्वक्तव्यः * ॥ युकोऽपवादः । पालयति ॥ वो विधूनने जुक् ॥३॥३८॥ वातेर्जुक् स्याण्णौ कम्पेऽर्थे । वाजयति । कम्पे किम् । केशान्वापयति ॥ विभाषा लीयतेः ॥ लीलोर्नुग्लुकावन्यतरस्यां स्लेहविपातने ७३२३९॥ लीयतेलातेश्च क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ॥ प्रलम्भनाभिभवपूजनासु लियो नित्यमात्वमशीति वाच्यम् * ॥ लियः संमाननशालीनीकरणयोश्च ।।३।७० ॥ लीलियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥ विभेतेहेतुभये ।६।११५६॥ बिभेतेरेच आत्वं वा स्यात्प्रयोजकाद्भयं चेत् ॥ भीस्म्योर्हेतुभये ।१३।६८॥ ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥ भियो हेतुभये षुक ॥३॥४०॥ भी ई इतीकारः प्रश्लिप्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥ नित्यं स्मयते।६।१५७॥ स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते। हेतोश्चेद्भयस्मयावित्युक्ते
१ लुगित्यागमोऽयम् ॥