________________
तिङन्ते ण्यन्तप्रक्रियाः ।
२३९ दर्शने । क्षप प्रेरणे ॥ वस निवासे ॥ तुत्थ आवरणे ॥ एवमान्दोलयति । प्रङ्खोलयति । विडम्बयति ॥ अवधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोभ्याः । अपरे तु नवगणी ( पाठो बहुलमित्याहुः । तेना) पठितेभ्योऽपि क्वचित्वार्थे णिच् । रामो राज्यमचीकरदिति यथेत्याहुः । चुरादिभ्य एव बहुलं णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसने णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ श्वेताश्वाश्वतरगालोडिताबरकाणामश्वतरेतकलोपश्च । श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वमाचष्टे तेनातिकामति वा श्वेतयते । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ पृच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु पुच्छभाण्डेति णिविधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥
॥इति चुरादयः॥ __तत्प्रयोजको हेतुश्च ।१।४।५५॥ कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥ हेतु. मति च ३३१॥२६॥ प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्चेति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥ ओः पुयणज्यपरे ॥४८॥ सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीभवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ।७४।८१ ॥ एषामभ्यासोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे । असिस्रवत् । असुस्रवत् । नाग्लोपीति इखनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे, अचचकासत् । अग्लोपीति सुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौ चङीति हवः । दीर्घो लघोः । न चाग्लोपित्वावयोरप्यसंभवः । ण्याकृतिनिर्देशात् । अचूचुरत् ॥ णौ च संश्चङो।६।१॥३१॥ सन्परे चपरे च णौ श्वयतेः संप्रसारणं वा स्यात् ॥ संप्रसारणं तदाश्रयं च कार्य बलवदिति आदौ संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥ स्तम्भु सिवुसहां चङि ।८।३।११६॥ उपसर्गस्थान्निमित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रखो द्वित्वात्प्रागेव । ओणे;दित्करणाल्लिङ्गात् । मा भवानिदिधत् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्रा इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः। भुजन्युजौ पाण्युपतापयोरिति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्रा इति निषेघाजिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् दकारोच्चा
१ अत्र चिह्नितो भागः प्रचुरप्रचारोऽपि प्रक्षिप्तप्रायोऽपपाठश्चेति प्रतीयते ।