________________
२३८
सिद्धान्तकौमुद्याम् दर्शने इत्येके ॥ अदिधेकत् ॥७॥ कत्र शैथिल्ये ॥ कत्रयति । कत्रति ॥८॥ कर्तेत्यप्येके ॥ कर्तयति । कर्तति ॥ ९॥ प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भावरभावटिलोपविन्मतुब्लोपयणादिलोपप्रस्थस्फाद्यादेशभसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङीत्यत्र भाष्ये तु वृद्धोपो बलीयानिति स्थितम् । अपपटत् ॥ तत्करोति तदाचष्टे । पूर्वस्य प्रपञ्चः करोत्याचष्ट इतिधात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविवक्षितः ॥ तेनातिकामति ॥ अश्वेनातिकामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ॥ आख्यानात्कृतस्तदाचष्टे कृल्लुकप्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति * ॥ कंसवधमाचष्टे कंसंघातयति । इह कंसं हन् इ इति स्थिते ॥ हनस्तोऽचिण्णलोः३३२॥ हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णल्वर्जे अिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाद्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्य कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् ॥ कर्तृकरणाद्धात्वर्थे ॥ कर्तुर्व्यापारार्थ यत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति । असयति ॥ बष्क दर्शने ॥ १॥ चित्र चित्रीकरणे ॥ आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने ॥ चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति ॥ २ ॥ अंस समाघाते ॥ ३ ॥ वट विभाजने ॥ ४ ॥ लज प्रकाशने ॥ वटि लजि इत्येके ॥ वण्टयति । लञ्जयति । अदन्तेषु पाठबलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञापयति ॥ ७ ॥ शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । मणापयतीत्यादि ॥ मिश्र सम्पर्के ॥ ८॥ सङ्ग्राम युद्धे ॥ अयमनुदात्तेत् । अकारप्रश्लेषात् । अससंग्रामत ॥९॥ स्तोम श्लाघायाम् । अतुस्तोमत् ॥ १०॥ छिद्र कर्णभेदने ॥ करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये ॥ १२ ॥ अन्ध दृष्ट्युपघाते ॥ उपसंहार इत्यन्ये ॥ आन्दधत् ॥ १३ ॥ दण्ड दण्डनिपातने ॥ १४ ॥ अङ्क पदे लक्षणे च ॥ आञ्चकत् ॥ अङ्ग च । आञ्जगत् ॥ १६ ॥ सुख दु:ख तत्क्रियायाम् ॥ १८ ॥ रस आस्वादनस्नेहनयोः ॥ १९ ॥ व्यय वित्तसमुत्सर्गे । अवव्ययत् ॥ २० ॥ रूप रूपक्रियायाम् ॥ रूपस्य दर्शनं करणं वा रूपक्रिया ॥ २१ ॥ छेद द्वैधीकरणे ॥ अचिच्छेदत् ॥ २२ ॥ छद अपवारण इत्येके ॥ छदयति ॥ २३ ॥ लाभ प्रेरणे ॥ २४ ॥ व्रण गात्रविचूर्णने ॥ २५ ॥ वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्ण वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः ॥ २६ ॥ बहुलमेतन्निदर्शनम् ॥ अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकादन्येऽपि बोध्याः ॥ तद्यथा ॥ पर्ण हरितभावे ॥ अपपर्णत् ॥ विष्क