________________
२३६
सिद्धान्तकौमुद्याम् आवर्षणे ॥ २५ ॥ चीक च ॥ २६ ॥ अर्द हिंसायाम् । खरितेत् । अर्दयति । अर्दति । अर्दते ॥ २७ ॥ हिसि हिंसायाम् ॥ हिंसयति । हिंसति । हिनस्तीति नमि गतम् ॥ २८॥ अर्ह पूजायाम् ॥ २९ ॥ आङः षद पद्यर्थे ॥ आसादयति । आसीदति । पाति सीदादेशः ॥ आसत्ता । आसात्सीत् ॥ ३० ॥ शुन्ध शौचकर्मणि ॥ शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् ॥ ३१ ॥ छद अपवारणे । खरितेत् ॥ ३२ ॥ जुष परितर्कणे ॥ परितकणमूहो हिंसा वा ॥ परितर्पण इत्यन्ये ॥ परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ ॥ ३३ ॥ धूञ् कम्पने ॥ णावित्यधिकृत्य ॥ धूमीञोर्नुग्वक्तव्यः * ॥ धूनयति । धवति । धवते । केचित्तु धूमीणोरिति पठित्वा प्रीणातिसाहचर्याद्भुनातेरेव नुकमाहुः । धावयति ॥ ३४ ॥ अयं खादौ फ्यादौ तुदादौ च । स्वादौ इखश्च । तथा च कविरहस्ये ॥ धूनोति चम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ॥ १॥ प्री तर्पणे ॥ प्रीणयति । धूमीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते ॥ ३५ ॥ श्रन्थ ग्रन्थ सन्दर्भ ॥ ३७ ॥ आपु लम्भने । आपयति । आपिपत् । आपति । आप्ता । आपत् । खरितेदयमित्येके । आपते ॥ ३८ ॥ तनु श्रद्धोपकरणयोः ॥ उपसर्गाच दैर्ये ॥ तानयति । वितानयति । तनति । वितनति ॥ ३९ ॥ चन श्रद्धोपहननयोरित्येके ॥ चानयति । चनति ॥ ४० ॥ वद सन्देशवचने ॥ वादयति । खरितेत् । वदति । वदते ॥ अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् ॥ ४१ ॥ वच परिभाषणे ॥ वाचयति । वचति । वक्ता । अवाक्षीत् ॥४२॥ मान पूजायाम् । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते ॥ इत्याकुस्मीयाः ॥ मन्यते इति दिवादौ । मनुते इति तनादौ च ॥ ४३ ॥ भू प्राप्तावात्मनेपदी ॥ भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति ॥ ४४ ॥ गर्ह विनिन्दने ॥ ४५ ॥ मार्ग अन्वेषणे ॥ ४६ ॥ कठि शोके ॥ उत्पूर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः ॥ ४७ ॥ मृजू शौचालंकारयोः । मार्जयति । मार्जति । मार्जिता । मार्टा ॥ ४८ ॥ मृष तितिक्षायाम् । खरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति । मृष्यते इति दिवादौ ॥ सेचने शपि मर्षति ॥ ४९ ॥ धृष प्रहसने ॥ धर्षयति । धर्षति ॥ ५० ॥ इत्याधृषीयाः ॥ ॥ अथादन्ताः॥ कथ वाक्यप्रबन्धे ॥ अल्लोपस्य स्थानिवद्भावान्न वृद्धिः । कथयति। अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् ॥ १॥ वर ईप्सायाम् । वरयति । वारयतीति गतम् ॥ २॥ गण संख्याने ॥ गणयति ॥ ई च गणः।४।९७ ॥ गणेरभ्यासस्य ईत्स्याच्चपरे णौ । अजीगणत् । अजगणत् ॥ ३॥ शठ श्वठ सम्यगवभाषणे ॥ ५॥ पठ वठ ग्रन्थे ॥७॥ रह त्यागे ॥ अररहत् ॥ ८॥ स्तन गदी देवशब्दे । स्तनयति । गदयति । अजगदत् ॥१०॥पत गतौ वा ॥ वा णिजन्तः । वाऽदन्त इत्येके । आये । पतयति । पतति ।