________________
२३४
सिद्धान्तकौमुद्याम् गल स्रवणे ॥ ३१॥ भल आभण्डने ॥ ३२ ॥ कूट आप्रदाने । अवसादन इत्येके ॥ ३३ ॥ कुट्ट प्रतापे ॥ ३४ ॥ वञ्च प्रलम्बने ॥ ३५ ॥ वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्य शक्तिबन्धश्च । वर्षयते ॥ ३६॥ मद तृप्तियोगे ॥ मादयते ॥ ३७॥ दिव परिकूजने ॥ ३८ ॥ गृ विज्ञाने ॥ गारयते ॥ ३९ ॥ विद चेतनाख्याननिवासेषु । वेदयते ॥ ४० ॥ सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ॥ विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ॥ मान स्तम्भे ॥ मानयते ॥ ४१ ॥ यु जुगुप्सायाम् । यावयते ॥ ४२ ॥ कुस्म नाम्नो वा ॥ कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत ॥ ४३ ॥ अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थे णिच् ॥ इत्याकुस्मीयाः ॥ ॥ चर्च अध्ययने ॥ १॥ बुक्क भषणे ॥ २॥ शब्द उपसर्गादाविष्कारे च । चाद्भूषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः ॥ अनुपसर्गाच्च ॥ आविष्कारे इत्येव । शब्दयति ॥ ३॥ कण निमीलने ॥ काणयति ॥ णौ चङ्युपधाया ह्रखः ॥ काण्यादीनां वेति विकल्प्यते । अचीकणत् । अचकाणत् ॥ ४ ॥ जभि नाशने ॥ जम्भयति । जम्भति ॥ ५ ॥ खूद क्षरणे ॥ सूदयति । असूषुदत् ॥ ६ ॥ जसु ताडने ॥ जासयति । जसति ॥ ७ ॥ पश बन्धने । पाशयति ॥ ८ ॥ अम रोगे । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति ॥९॥ चट स्फुट भेदने ॥ विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् ॥ ११ ॥ घट संघाते ॥ घाटयति ॥ १२ ॥ हन्त्यर्थाश्च ॥ नवगण्यामुक्ता अपि हन्त्यर्थाः खार्थे णिचं लभन्त इत्यर्थः ॥ दिवु मर्दने ॥ उदित्त्वाद्देवतीत्यपि ॥ १३ ॥ अर्ज प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति ॥ १४ ॥ घुषिर् विशब्दने ॥ घोषयति । घुषिरविशब्दन इति सूत्रेऽविशब्दन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्त्वादका । अघुषत् । अघोषीत् । ण्यन्तस्य तु, अजूघुषत् ॥ १५ ॥ आङः क्रन्द सातत्ये ॥ भौवादिकः क्रन्दधातुराबानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये आक्रन्दयति । अन्ये तु आपूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति ॥ १६ ॥ लस शिल्पयोगे ॥ १७ ॥ तसि भूष अलङ्करणे ॥ अवतंसयति । अवतंसति । भूषयति । मोक्ष असने ॥ मोक्षयति ॥ १९॥ अर्ह पूजायाम् ॥ २० ॥ ज्ञा नियोगे ॥ आज्ञापयति ॥ २१ ॥ भज विश्राणने ॥ २२ ॥ शुधु प्रहसने । अशशर्धत् । अशीशृधत् ॥ २३ ॥ यत निकारोपस्कारयोः ॥ २४ ॥ रक लग आखादने ॥ रघ इत्येके ॥ रगेत्यन्ये ॥ २८ ॥ अञ्च विशेषणे ॥ अञ्चयति । उदित्त्वमिडकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् ॥ २९॥ लिगि चित्रीकरणे ॥ लिङ्गयति । लिङ्गति ॥ ३० ॥ मुद संसर्गे ॥ मोदयति सक्तून् घृतेन ॥ ३१ ॥ त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये ॥ ३२ ॥ उध्रस
१ आप्रवणे इति पाठान्तरम् ॥