________________
२३२
सिद्धान्तकौमुद्याम् छदि संवरणे ॥ छन्दयति । छन्दति ॥५६॥ श्रण दाने ॥ प्रायेणायं विपूर्वः । विश्राणयति ॥ ५७ ॥ तड आघाते ॥ ताडयति ॥ ५८ ॥ खड खडि कडि भेदने ॥ खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति ॥६१॥ कुडि रक्षणे ॥६२॥ गुडि वेष्टने ॥ रक्षण इत्येके ॥ कुठि इत्यन्ये ॥ अवकुण्ठयति । अवकुण्ठति ॥ गुठि इत्यपरे ॥ ६५ ॥ खुडि खण्डने ॥ ६६ ॥ वठि विभाजने ॥ ६७ ॥ वडि इत्येके ॥ ६८ ॥ मडि भूषायां हर्षे च ॥ ६८ ॥ भडि कल्याणे ॥ ७० ॥ छर्द वमने ॥ ७१ ॥ पुस्त वुस्त आदरानादरयोः ॥ ७३. ॥ चुद संचोदने ॥ ७४ ॥ नक धक्क नाशने ॥ णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति ॥ ७५॥ चक्क चुक्क व्यथने ॥ ७८ ॥ क्षल शौचकर्मणि ॥ ७९ ॥ तल प्रतिष्ठायाम् ॥ ८० ॥ तुल उन्माने ॥ तोलयति । तोलयामास । अतूतुलत् ॥ कथं तुलयति तुलना इत्यादि । अतुलोपमाभ्यामिति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् ॥ ८१ ॥ दुल उत्क्षेपणे दोलयति । दोलयामास । अदूदुलत् ॥ ८२ ॥ पुल महत्त्वे ॥ ८३ ॥ चुल समुच्छ्राये ॥ ८४ ॥ मूल रोहणे । मूलयति । मूलयामास ॥ ८५॥ कल विल क्षेपे । कालयति ॥ ८७ ॥ बिल भेदने ॥ ८८ ॥ तिल स्नेहने ॥ ८९ ॥ चल भृतौ ॥ ९० ॥ पाल रक्षणे ॥ ९१ ॥ लूष हिंसायाम् ॥ ९२ ॥ शुल्ब माने । शूपे च ॥ ९४ ॥चुट छेदने ॥ ९५॥ मुट संचूर्णने ॥ ९६ ॥ पडि पसि नाशने । पण्डयति । पण्डति । पंसयति । पंसति ॥ ९८ ॥ ब्रज मार्ग संस्कारगत्योः ॥ १०० ॥ शुल्क अतिस्पर्शने ॥ १०१ ॥ चपि गत्याम् ॥ चम्पयति । चम्पति ॥ १०२॥ क्षपि क्षान्त्याम् ॥ क्षम्पयति । क्षम्पति ॥ १०३ ॥ छजि कृच्छजीवने ॥ १०४ ॥ श्वतं गत्याम् ॥ १०५ ॥ श्वभ्र च ॥ १०६ ॥ ज्ञप मिच्च ॥ अयं ज्ञाने ज्ञापने च वर्तते ॥ मितां हुस्वः।६।४।९२॥ मितामुपधाया हवः स्याण्णौ परे ॥ ज्ञपयति ॥ १०७ ॥ यम च परिवेषणे ॥ चान्मित् । परिवेषणमिह । वेष्टनम् । न तु भोजना नापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः ॥ १०८ ॥ चह परिकल्कने ॥ चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तत्वेनाग्लोपित्वादीर्घसन्वद्भावौ न । अचचहत् ॥ चप इत्येके । चापयति । रह त्याग इत्येके । अरीरहत् । कथादेस्तु अररहत् ॥ १११ ॥ बल प्राणने ॥ बलयति ॥११२ ॥ चिञ् चयने ॥ चिस्फुरोों ।६।१५४॥ आत्वं वा स्यात् ॥ अतिहीठलीरीयीक्ष्माय्यातां पुङौ ७३३३६ ॥ चपयति । चययति । जित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । प्रणिचयते । प्रनिचयते ॥ नान्ये मितोऽहेतौ ॥ अहेतौ खार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादी
नाममन्त वप्रयुक्तं मित्त्वं न ॥ ११३ ॥ घट्ट चलने ॥ ११४ ॥ मुस्त संघाते ॥ ११५॥ , वह संवरणे ॥ ११६ ॥ षट्ट स्फिट्ट चुबि हिंसायाम् ॥ ११९ ॥ पूल संघाते
॥१२० ॥ पूर्ण इत्येके ॥ पुणेत्यन्ये ॥ १२१ ॥ पुंस अभिवर्धने ॥ १२२ ॥ टकि