________________
तिङन्ते चुरादयः ।
२३१ अत एकहलित्यत्र वृत्तिकृता जगाण जमणतुरित्युदाहृतत्वात् ॥ विशेषापेक्षमित्यपरे । अत एवाधृषाद्वेत्यस्य न वैयर्थ्यम् ॥ २ ॥ यत्रि संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्नतरिति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु ॥ ३ ॥ स्फुडि परिहासे । स्फुण्डयति । इदित्करणात् स्फुण्डति ॥ स्फुटीति पाठान्तरम् । स्फुण्टयति ॥ ४ ॥ लक्ष दर्शनाङ्कनयोः ॥ ५॥ कुद्रि अनृतभाषणे ॥ कुन्द्रयति ॥ ६ ॥ लड उपसेवायाम् । लाडयति ॥ ७ ॥ मिदि स्नेहने ॥ मिन्दयति । मिन्दति ॥ ८॥ ओलडि उत्क्षेपणे ॥
ओलण्डयति । ओलण्डति ॥ ९॥ ओकार इदित्येके । लण्डयति । लण्डति ॥ १०॥ उकारादिरयमित्यन्ये । उलण्डयति ॥ ११ ॥ जल अपवारणे ॥ १२ ॥ लज इत्येके ॥ १३ ॥ पीड अवगाहने । पीडयति ॥ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ७१४३॥ एषामुपधाया हखो वा स्याच्चपरे णौ । अपीपिडत् । अपिपीडत् ॥ १४ ॥ नट अवस्कन्दने । अवस्कन्दनं नाट्यम् ॥ १५॥ श्रथ प्रयत्ने । प्रस्थान इत्येके ॥ १६॥ बध संयमने ॥ बाधयति । बन्धेति चान्द्रः ॥ १७ ॥ प पूरणे । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेटूत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् ॥ १८ ॥ ऊर्ज बलप्राणनयोः ॥ १९ ॥ पक्ष परिग्रहे ॥ २० ॥ वर्ण चूर्ण प्रेरणे ॥ वर्ण वर्णन इत्येके ॥ २२ ॥ प्रथ प्रख्याने ॥ प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥ अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्
४९५ ॥ एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चपरे णौ ॥ इत्वापवादः । अपप्रथत् ॥ २३ ॥ पृथ प्रक्षेपे । पर्थयति ॥ उक्रेत् ।७४७॥ उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चपरे णौ । इररारामपवादः । अपीपृथत् । अपपर्थत् ॥ २४ ॥ पथ इत्येके पाथयति ॥ २५ ॥षम्ब सम्बन्धने ॥ सम्बयति । अससम्बत् ॥ २६ ॥ शम्ब च । अशशम्बत् ॥ २७ ॥ साम्ब इत्येके ॥ २८ ॥ भक्ष अदने ॥ २९ ॥ कुट्ट छेदनभर्त्सनयोः । पूरण इत्येके । कुट्टयति ॥ ३० ॥ पुट्ट चुट्ट अल्पीभावे ॥ ३२ ॥ अदृ षुद्द अनादरे ॥ अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वान्नन्द्रा इति निषेधः । आट्टिटत् ॥ ३४ ॥ लुण्ठ स्तेये । लुण्ठयति । लुण्ठतीति लुठि स्तेये इति भौवादिकस्य ॥ ३५ ॥ शठ श्वठ असंस्कारगत्योः ॥ ३७ ॥ श्वठि इत्येके ॥३८॥ तुजि पिजि हिंसाबलादाननिकेतनेषु । तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति ॥ ४०॥ तुज पिजेति केचित् ॥४२॥ लजि लुजि इत्येके ॥ ४४ ॥ पिस गतौ । पेसयति । पेसतीति तु शपि गतम् ॥ ४५ ॥ षान्त्व सामप्रयोगे ॥ ४६॥ श्वल्क वल्क परिभाषणे ॥४८॥ ष्णिह स्नेहने ॥ ४९॥ स्फिट इत्येके ॥ ५० ॥ स्मिट अनादरे ॥ अषोपदेशत्वान्न षः । असिस्मिटत् ॥ ५१ ॥ स्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते ॥ ५२ ॥ श्लिष श्लेषणे ॥ ५३ ॥ पथि गतौ ॥ पन्थयति । पन्थति ॥ ५४ ॥ पिच्छ कुट्टने ॥ ५५ ॥