________________
तिङन्ते ज़्यादयः।
२२९ अस्तरिष्ट । अस्तरीष्ट । अस्तीट ॥ १२ ॥ कृञ् हिंसायाम् । कृणाति । कृणीते । चकार । चकरे ॥ १३ ॥ वृञ् वरणे । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदोष्ठ्यपूर्वस्य । वूर्यात् । वरिषीष्ट । वर्षीष्ट । अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट अवूष्ट ॥ १४ ॥ धू कम्पने ॥ धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूभ्य इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥ १५ ॥ ॥ अथ बध्नात्यन्ताः परस्मैपदिनः॥ हिंसायाम् । शदृप्रां हस्खो वेति हखपक्षे यण् । अन्यदा ऋच्छत्यतामिति गुणः । शश्रतुः । शशरतुः । श्युकः कितीति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् ॥ १ ॥ पृ पालनपूरणयोः । पप्रतुः । पपरतुः । आशिषि पूर्यात् ॥ २॥ वृ वरणे ॥ भरण इत्येके ॥ ३ ॥ भृ भर्त्सने । भरणेप्येके ॥ ४ ॥ मृ हिंसायाम् । मृणाति । ममार ॥ ५॥ दृ विदारणे । ददरतुः । दद्रतुः ॥ ६॥ जृ वयोहानौ ॥ ७ ॥ झु इत्येके ॥ ४ ॥ धू इत्यन्ये ॥ ९॥ नृ नये ॥१०॥ कृ हिंसायाम् ॥ ११॥ ऋ गतौ । ऋणाति । आरांचकार । अरिता । अरीता। आर्णात् । आर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् ॥ १२.॥ गृ शब्दे ॥ १३ ॥ ज्या वयोहानौ । अहिज्या ॥ हल:।६।४।२॥ अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घ कृते प्वादीनां हवः । जिनाति । जिज्यौ । जिज्यतुः ॥ १४ ॥ री गतिरेषणयोः । रेषणं वृकशब्दः ॥ १५॥ ली श्लेषणे । विभाषा लीयतेरित्येविषये आत्वं वा । ललौ । लिलाय । लाता। लेता ॥ १६ ॥ व्ली वरणे । ब्लिनाति ॥ १७ ॥ प्ली गतौ ॥ १८ ॥ वृत् ॥ ल्वादयो वृत्ताः । प्वादयोऽपीत्येके ॥ वी वरणे ॥ १९ ॥ भ्री भये ॥२०॥ भरण इत्येके ॥२१॥क्षीष् हिंसायाम् । एषां त्रयणां हवः । केषांचिन् चिन्मते तु न ॥ २२ ॥ ज्ञा अवबोधने । ज्ञाजनोर्जा । जानाति । दीर्घनिर्देशसामर्थ्यान्न हवः ॥ २३ ॥ बन्ध बन्धने । बध्नाति । बबन्धिथ । बन्द्धा । बन्द्धारौ । भन्त्स्यति । बधान । अभान्त्सीत् । पूर्वत्रासिद्धमिति भष्भावात्पूर्व झलो झलीति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रति सिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सुः ॥ २४ ॥ वृ संभक्तौ । वृणीते । वत्रे । ववृषे । ववृद्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत ॥ १॥ श्रन्थ विमोचनप्रतिहर्षयोः॥ ॥ इतः परस्मैपदिनः॥ श्रश्नाति । श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः । श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् ॥ १॥ मन्थ विलोडने ॥२॥ श्रन्थ ग्रन्थ सन्दर्भ ॥ अर्थभेदाच्छ्न्थेः पुनः पाठः । रूपं तूक्तम् ॥ ४ ॥ कुन्थ संश्लेषणे । संक्लेशे इत्येके । कुश्नाति । चुकुन्थ ॥५॥ कुथेति दुर्गः । चुकोथ ॥ ६॥ मृद क्षोदे । मृद्गाति । मृदान ॥ ७॥ मृड च । अयं