________________
तिङन्ते तनादयः।
२२७ वितः । विज इडिति ङित्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ॥ १० ॥ वृजी वर्जने । वृणक्ति । वर्जिता ॥ ११ ॥ पृची संपर्के । पृणक्ति । पपर्च ॥ १२ ॥
॥ इति रुधादयः॥ अथ सप्त स्वरितेतः ॥ तनु विस्तारे ॥ तनादिकृभ्य उः ॥ तनोति । तन्वः । तनुवः । तनुते । ततान । तेने । तनु । अतनीत् । अतानीत् ॥ तनादिभ्यस्तथासोः । रा४७९॥ तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनतशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट अतानिष्ट । अनुदात्तोपदेशेत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः ॥ १ ॥ षणु दाने । सनोति । सनुते । ये विभाषा । सायात् । सन्यात् । जनसनेत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः ॥२॥ क्षणु हिंसायाम् । क्षणोति । क्षणुते । यन्तेति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः ॥ ३ ॥ क्षिणु च । उप्रत्ययनिमित्तो लघूपधगुणः संज्ञापूर्वको विधिरनित्य इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट ॥ ४ ॥ ऋणु गतौ । ऋणोति । अर्णोति । अर्णतः । अणुवन्ति । आनर्ण । आनृणे । अर्णितासि । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः ॥ ५॥ तृणु अदने । तृणोति । तर्णोति । तृणुते । तणुते ॥ ६ ॥ घृणु दीप्तौ । जघर्ण । जघृणे ॥ ७ ॥ ॥ अथ द्वावनुदात्तेतौ ॥ वनु याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान ॥ १ ॥ मनु अवबोधने । मनुते । मेने ॥२॥ डुकृञ् करणे । करोति । अत उत्सार्वधातुके । कुरुतः । यण् । न भकुर्छरामिति न दीर्घः । कुर्वन्ति ॥ नित्यं करोतेः ।।४।१०८ ॥ करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥ ये च ।६।१।१०९ ॥ कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् । तनादिभ्य इति लुकोऽभावे हखादङ्गादिति सिचो लोपः । अकृत । अकृथाः ॥ संपरिभ्यां करोतौ भूषणे ।६।१।१३७ ॥ समवाये च ।।१।१३८॥ संपरिपूर्वस्य करोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतंभक्षा इति ज्ञापकात् । परिनिविभ्य इति षः । परिष्करोति ॥ सिवादीनां वा ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च।६।१।१३९॥ उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाशितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥ सुट्टात्पूर्वः६।१।१३५ ॥ अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व