________________
तिङन्ते तुदादयः ।
२२५ २।२१ ॥. गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल। जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता ॥ ७ ॥ दृडू. आदरे । आद्रियते । आद्रियेते । आदद्रे । झादद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आहत । आहषाताम् ॥ ८ ॥ धृ अवस्थाने । ध्रियते ॥ ९॥ ॥ अथ परस्मैपदिनः षोडश ॥ प्रच्छ ज्ञीप्सायाम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् ॥ १॥ वृत् किरादयो वृत्ताः ॥ सृज विसर्गे । विभाषा सृजिदृशोः । ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोझल्यमकितीत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् ॥२॥ टुमस्जो शुद्धौ । मज्जति । ममज्ज । मस्जिनशोझलीति नुम् ॥ मस्जेरन्त्यात्पूर्वो नुम्वाच्यः * ।। संयोगादिलोपः । ममथ । ममजिथ । मङ्का । मङ्ख्यति । अमाङ्क्षीत् । अमाताम् । अमानुः ॥३॥ रुजो भङ्गे । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् ॥ ४॥ भुजो कौटिल्ये रुजिवत् ॥ ५॥ छुप स्पर्शे । छोप्ता । अच्छौप्सीत् ॥ ६॥ रुश रिश हिंसायाम् । तालव्यान्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति ॥ ८॥ लिश गतौ । अलिक्षत् ॥९॥ स्पृश संस्पर्शने । स्प्रष्टा । स्पष्टी । स्प्रक्ष्यति । स्पीति । अस्पाक्षीत् । अस्पाीत् । अस्पृक्षत् ॥ १० ॥ विच्छ गतौ । गुपूधूपेत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ ॥ ११ ॥ विश प्रवेशने । विशति । वेष्टा ॥ १२ ॥ मृश आमर्शने । आमर्शनं स्पर्शः । अम्राक्षीत् । अमाक्षीत् । अमृक्षत् ॥ १३ ॥ णुद प्रेरणे । कभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः ॥ १४ ॥ षद् विशरणगत्यवसादनेषु । सीदतीत्यादि भौवादिकवत् । इह पाठो नुम्विकल्पार्थः । सीदती । सीदन्ती । ज्वलादौ पाठस्तु णार्थः सादः । खरार्थश्च । शबनुदात्तः । शस्तूदात्तः॥१५॥ शदू शातने॥खरार्थ एव पुनः पाठः। शता तु नास्ति । शदेः शित इत्यात्मनेपदोक्तेः ॥१६॥॥ अथ षट् खरितेतः॥ मिल सङ्गमे । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः। मिलति । मिलते । मिमेल । मिमिलें ॥ १ ॥ मुच्ल मोक्षणे ॥शे मुचादीनाम् ।७।११५९॥ नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता। मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् ॥ २॥ लुप्ल छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त ॥ ३ ॥ विद् लाभे । विन्दति । विन्दते । विवेद । विविदे। व्याघ्रभूत्यादिमते सेट्रोऽयम् । वेदिता। भाष्यादिमतेऽनिटः। वेत्ता । परिवेत्ता। परिर्वर्जने । ज्येष्ठं परित्यज्य दारानमीश्च लब्धवानित्यर्थः । तृन्तृचौ. ॥ ४ ॥ लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । - लिपिसिचीत्यङ् । तङि तु. वा अलिपत् । अलिपत । अलिप्त ॥ ५॥ षिच क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभ्यषिच ॥६॥॥ अथ त्रयः परस्मैपदिनः॥ कृती छेदने । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्यति । अकीत् ॥१॥ खिद परिघाते । खिन्दति । चिखेद। खेत्ता । अयं दैन्ये दिवादौ रुधादौ च ॥ २ ॥
२९