________________
२२४
सिद्धान्तकौमुद्याम् दिभ्य इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ॥ ७५॥ पुट संश्लेषणे ॥ ७६ ॥ कुच संकोचने ॥ ७७ ॥ गुज शब्दे ॥ ७८ ॥ गुड रक्षायाम् ॥ ७९ ॥ डिप क्षेपे ॥ ८० ॥ छुर छेदने ॥ न भकुर्छरामिति न दीर्घः । छुर्यात् ॥ ८१ ॥ स्फुट विकसने । स्फुटति । पुस्फोट ॥ ८२ ॥ मुट आक्षेपमर्दनयोः ॥ ८३ ॥ त्रुट छेदने । वा भ्राशेति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुटिता ॥ ८४ ॥ तुट कलहकर्मणि । तुटति । तुतोट । तुटिता ॥ ८५ ॥ चुट छुट छेदने ॥ ८७ ॥ जुड बन्धने ॥ ८८ ॥ कड मदे ॥ ८९॥ लुड संश्लेषणे ॥ ९० ॥ कृड घनत्वे ॥ घनत्वं सान्द्रता । चकर्ड । कृडिता ॥ ॥९१॥ कुड बाल्ये ॥ ९२ ॥ पुट उत्सगें ॥ ९३ ॥ घुट प्रतिघाते ॥ ९४ ॥ तुड तोडने । तोडनं भेदः॥९५॥ थुड स्थुड संवरणे । थुडति । तुथोड । तुस्थोड ॥ ९७ ॥ खुड छुड इत्येके ॥ ९९ ॥ स्फुर स्फुल संचलने ॥ १०१ ॥ स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥ स्फुरतिस्फुलत्योर्निनिविभ्यः ८७६ ॥ षत्वं वा स्यात् । निःस्फुरति । निःप्फुरति । स्फर इत्यकारोप, केचित्पठन्ति । पस्फार ॥ १०२ ॥ स्फुड चुड ब्रुड संवरणे ॥ १०५ ॥ क्रुड भृड निमज्जन इत्येके ॥ १०७ ॥ गुरी उद्यमने । अनुदात्तेत् । गुरते । जुगुरे । गुरिता ॥ १०८ ॥ णू स्तवने । दीर्घान्तः । परिणूतगुणोदयः ॥ ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् ॥ १॥ धू विधूनने । धुवति ॥२॥ गु पुरीषोत्सर्गे । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । हखादङ्गात् । अगुताम् । अगुषुः ॥ ३ ॥ध्रु गतिस्थैर्ययोः । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रुव्यात् । अध्रुवीत् । अध्रुविष्टाम् ॥ ४ ॥ कूडू शब्दे । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । इखान्त इति न्यासकारः । कुता । अकुत ॥ ५॥ वृत् ॥ कुटादयो वृत्ताः॥ पुडू व्यायामे । प्रायेण व्यापूर्वः । रिङ् । इयरे । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्याप्त । व्यापृषाताम् ॥ १॥ मृङ् प्राणत्यागे ॥ म्रियतेललिङोश्च ।१।२६१ ॥ लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं खरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥ २॥ अथ परस्मैपदिनः सप्त ॥ रिपि गतौ । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता ॥ २ ॥ धि धारणे ॥ ३ ॥ क्षि निवासगत्योः ॥ ४ ॥ प्रेरणे । सुवति । सविता ॥५॥ कृ विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता करीता । कीर्यात् । अकारीत् ॥ किरतो लवने ।६।१।१४०॥ उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति । अडभ्यासव्यवायेऽपि । सुट् कात्पूर्व इति वक्तव्यम् * ॥ उपास्किरत् । उपचस्कार ॥ हिंसायां प्रतेश्च ।६।१।१४१ ॥ उपात्प्रतैश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति ॥ ६ ॥ गृ निगरणे ॥ अचि विभाषा ।।
१ लघूपधगुणापेक्षया ।
२ इदं वार्तिकं सूत्रेषु कैश्चित्प्रक्षिप्तम् ।