________________
२२२
सिद्धान्तकौमुद्याम्
भाषायामपीत्येके । न तद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । दृणोति ॥ ९ ॥ वृत् ॥ इति स्वादयः ॥
1
तुद व्यथने ॥ इतः षट् खरितेतः ॥ तुदादिभ्यः शः | ३|१|७७ ॥ तुदति । तुदते । तुतोद । तुतोदि । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त ॥ १ ॥ णुद प्रेरणे । दति । दते । नोद । नुनुदे । नोत्ता ॥ २ ॥ दिश अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिशत् । अदिक्षत ॥ ३ ॥ भ्रस्ज पाके । ग्रहिज्येति संप्रसारणम् । सस्य श्श्रुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥ भ्रस्जो रोपधयो रमन्यतरस्याम् |६|४|४७ ॥ भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्त्वादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभष् । भर्जे । रमभावे । बभ्रज्ज । बभ्रुज्जतुः । बभ्रज्जिथ । स्कोरिति सलोपः । त्रश्चेति षः । भ्रष्ठ । बभ्रजे । भ्रष्टा । भ्रष्ट । भ्रक्ष्यति । भर्क्ष्यति ॥ किति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन ॥ भृज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट । भ्रक्षीष्ट । अभाक्षित् । अभ्राक्षीत् । अभष्र्ष्ट । अभ्रष्ट ॥ ४ ॥ क्षिप प्रेरणे । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त ॥ ५ ॥ कृष विलेखने । कृषति । कृषते । कृष्टा । कृष्यात् । कृक्षीष्ट । स्पृशमृशकृषेति सिज्वा । पक्षे क्सः । सिचि अम्वा । अकाक्षीत् । अकार्क्षीत् । अकृक्षत् । तङि लिङ्क्सचाविति कित्त्वादन्न । अकृष्ट । अकृक्षाताम् । अक्षत । अक्षत । अकृक्षाताम् । अक्रुक्षन्त ॥ ६ ॥ ऋषी गतौ । परस्मैपदी । ऋषति । आनर्ष ॥ ७ ॥ जुबी प्रीतिसेवनयोः ॥ ॥ आत्मनेपदिनश्चत्वारः । जुषते ॥ १ ॥ ओविजी भयचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते || विज इट् । १।२।२ ।। विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता उद्विजिष्यते ॥ २ ॥ ओलजी ओलस्जी व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे ॥ ४ ॥ अथ परस्मैपदिनः ॥ ओब्रश्च छेदने । ग्रहिज्या । वृश्चति । वत्रश्च । वत्रश्चतुः । वत्रश्चिथ । वत्रष्ठ । लिट्यभ्यासस्येति संप्रसारणम् । रेफस्य ऋकारः । उरत् । तस्याचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारण इति वस्योत्वं न । वश्चिता । व्रष्टा । त्रश्चिष्यति । व्रक्ष्यति । वृयात् । अत्रश्चीत् । अत्राक्षीत् ॥ १ ॥ व्यच व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् । व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते । अनसीति पर्युदासेन कृन्मात्रविषयत्वात् ॥ २ ॥ उछी उञ्छे । उञ्छति ॥ ३ ॥ उच्छी विवासे । उच्छति ॥ ४ ॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यृतामिति गुणः । द्विहलग्रहणस्यानेकहलुपलक्षणत्वानुट् । आनर्छ । आनर्छतुः । ऋच्छिता ॥ ५ ॥ मिच्छ उत्क्लेशे । उत्क्लेशः पीडा । मिमिच्छ । अमिच्छीत् ॥ ६ ॥ जर्ज चर्च झर्झ परिभाषणभर्त्सनयोः ॥ ९ ॥ त्वच संवरणे । तत्वांच ॥ १० ॥ स्तुतौ । आर्च ॥ ११ ॥ उब्ज आर्जवे ॥ १२ ॥ उज्झ उत्सर्गे ॥ १३ ॥ लुभ