________________
तिङन्ते दिवादयः।
२१९ ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् ॥ १८ ॥ मुह वैचित्ये । वैचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् ॥ १९ ॥ष्णुह उद्गिरणे । नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुङ । लोहिता । स्नोग्धा । सोढा । स्नोहिष्यति । सोक्ष्यति । अस्तुहत् ॥ २०॥ ष्णिह प्रीतौ । स्निह्यति । सिष्णेह ॥ वृत् ॥ रधादयः समाप्ताः॥ पुषादयस्तु आगणान्तादिति सिद्धान्तः ॥ २१॥ शमु उपशमे ॥ शमामष्टानां दीर्घः श्यनि ।७३७४ ॥ शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् ॥ १॥ तमु काङ्क्षायाम् । ताम्यति । तमिता । अतमत् ॥ २॥ दमु उपशमे । उपशमे इति ण्यन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । अदमत् ॥ ३ ॥ श्रमु तपसि खेदे च । श्राम्यति । अश्रमत् ॥ ४॥ भ्रम अनवस्थाने । वा भ्राशेति श्यन्वा । तत्र कृते शमामष्टानामिति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् ॥ ५॥ क्षमू सहने । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमषित् । भ्वादिस्तु पित् । अषितः क्षाम्यतेः क्षान्तिः क्षमूषः क्षमतेः क्षमा ॥ ६॥ क्लमु ग्लानौ । क्लाम्यति । क्लामति। शपीव श्यन्यपि ष्ठिवुक्लम्वित्येव दीर्धे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् ॥ ७ ॥ मदी हर्षे । माद्यति । अमदत् ।
शमादयोऽष्टौ गताः ॥ ८ ॥ असु क्षेपणे । अस्यति । आस । असिता ॥ अस्यतेस्थुक् ।७४।१७ ॥ अङि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्तीति वचनं तङर्थम् । तङ् तूपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत ॥ १ ॥ यसु प्रयत्ने ॥ यसोऽनुपसगात् ।३।११७१॥ संयसश्च ।३।१।७२॥ श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति ॥ २ ॥ जसु मोक्षणे । जस्यति ॥ ३॥ तसु उपक्षये। दसु च। तस्यति । अतसत् । दस्यति । अदसत् ॥ ५॥ वसु स्तम्भे । वस्यति । ववास । ववसतुंः । न शसददेति निषेधः । वशादिरयमिति मते तु । बेसतुः । बेसुः ॥ ६ ॥ व्युष विभागे। अयं दाहे पठितः । अर्थभेदेन त्वङर्थ पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे ॥ ७ ॥ प्लुष दाहे । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् ॥ ८॥ विस प्रेरणे । बिस्यति । अबिसत् ॥ ९॥ कुस संश्लेषणे । अकुसत् ॥ १० ॥ वुस उत्सर्गे ॥ ११ ॥ मुस खण्डने ॥ १२ ॥ मसी परिणामे । परिणामो विकारः । समी इत्येके ॥ १३ ॥ लुठ विलोडने ॥ १४ ॥ उच समवाये । उच्यति । उवोच । ऊचतुः। मा भवानुचत् ॥ १५ ॥ भृशु भ्रंशु अधःपतने । बभर्श । अभृशत् । अनिदितामिति नलोपः । भ्रश्यति । अभ्रशत् ॥ १७ ॥ वृश वरणे । वृश्यति । अवृशत् ॥ १८ ॥ कृश तनूकरणे । कृश्यति ॥ १९ ॥ जितृषा पिपासायाम् ॥ २०॥ हृष तुष्टौ । श्यन्नङौ भौवादिकाद्वि