________________
तिङन्ते दिवादयः ।
२१५
1
नेनिग्ध || नाभ्यस्तस्याचि पिति सार्वधातुके | ७|३|८७ ॥ लघूपधगुणो न स्यात् । निजानि । अनेने । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त ॥ १ ॥ विजिर् पृथग्भावे । वेवेक्ति । वेविते । विवेजिथ । अत्र विज इडिति ङित्त्वं न । ओविजी इत्यस्यैव तत्र ग्रहणात् । णिजिविजी रुधादावपि ॥ २ ॥ विष्ल व्याप्तौ । वेवेष्टि । वेविष्टे । लदित्त्वादङ् | अविषत् । तङि क्सः । अजादौ क्सस्याचीति अल्लोपः । अविक्षत | अविक्षाताम् | अविक्षन्त ॥ ३ ॥ अथ आगणान्ताः परस्मैपदिनइछान्दसाश्च ॥ घृ क्षरणदीप्त्योः । जिघर्म्यग्निं हविषां घृतेन ॥ भृञामित् । बहुलं छन्दसीति इत्वम् ॥ १ ॥ हृ प्रसह्यकरणे । अयं स्रुवो अभिजिहर्ति होमान् ॥ २ ॥ ऋ सृ गतौ । बहुलं छन्दसीत्येव सिद्धे अर्तिपिपर्त्योश्चेतीत्वविधानादयं भाषायामपि । अभ्यासस्य सवर्णे इतीयङ् । इयर्ति । इयूतः । इति । आर । आरतुः । इत्यतिति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति ॥ ४ ॥ भस भर्त्सनदीप्त्योः । बभस्ति । घसिभसोर्हलि चेत्युपधालोपः । झलो झलीति सलोपः । बब्धः । बप्सति ॥ ५ ॥ किद ज्ञाने । चिकेति ॥ ६ ॥ तुर त्वरणे । तुतोर्ति । तुतूर्तः । तुतुरति ॥ ७ ॥ धिष शब्दे । दिधेष्टि । दिधिष्टः ॥ ८ ॥ धन धान्ये । दधन्ति । दन्तः । दधनति ॥ ९ ॥ जन जनने । जजन्ति ॥ जनसनखनां सञ्झलोः | ६|४|४२ ॥ एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलाद क्विति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् ॥ १० ॥ गा स्तुतौ । देवाजिगाति सुम्नयुः । जिगीतः । जिगति ॥ ११ ॥
॥ इति जुहोत्यादयः ॥
दि क्रीडा विजिगीषाव्यवहारद्युतिस्तुतिमोदखनकान्तिगतिषु ॥
1
1
1
षन्ताः परस्मै. पदिनः ॥ दिवादिभ्यः श्यन् | ३|१|६९ ॥ शपोऽपवादः । हलि चेति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ॥ १ ॥ षिवु तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यषेवीत् । न्यसेवीत् ॥ २ ॥ स्त्रिवु गतिशोषणयोः ॥ ३ ॥ ष्ठिवु निरसने । केचिदिहेमं न पठन्ति ॥ ४ ॥ ष्णुसु अदने | आदान इत्येके । अदर्शन इत्यपरे । सुस्यति । सुष्णोस ॥ ५ ॥ ष्णसु निरसने । स्नस्यति । सनास ॥ ६ ॥ सु रणदीध्योः । ह्ररणं कौटिल्यम् । चक्लास ॥ ७ ॥ व्युष दाहे । वुव्योष ॥ ८ ॥ लुष च ॥ ९ ॥ नृती गात्रविक्षेपे । नृत्यति । ननर्त ॥ सेऽसिचिकृतचूतहृदतृदनृतः | ७|२५७ ॥ एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्डा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् ॥ १० ॥ त्रसी उद्वेगे । वा भ्राशेति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः ॥ ११ ॥ कुथ पूतीभावे । पूतीभावो दौर्गन्ध्यम् ॥ १२ ॥ पुथ हिंसायाम् ॥ १३ ॥