________________
२१२
सिद्धान्तकौमुद्याम् श्वस् अन् जस् एभ्यो वलादेः सार्वधातुकस्येद् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न, रुदिहि ॥ रुदश्च पञ्चभ्यः ३९८॥ हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥ अगायेगालवयोः ७३९९ ॥ अरोदीत् । अरोदत् । अरुदिताम् । अरुदन् । अरोदीः । अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्यामडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदित् ॥ १ ॥ निष्पप् शये । खपिति । खपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ । सुष्वप्थ । सुविनिर्दुर्व्यः सुपिसूतिसमाः।८।३।८८॥ एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे पत्वे च कृते द्वित्वम् । पूर्वत्रासिद्धीयमद्विर्वचने ॥ सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यासिद्धत्वात्ततः पूर्व हलादिः शेषः । नित्यत्वाच्च ॥ ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुखप्ता । अखपीत् । अखपत् । खप्यात् । सुप्यात् । सुषुयात् । अखाप्सीत् ॥ २ ॥ श्वस प्राणने । श्वसिति । श्वसिता । अश्वसीत् । अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । यन्तक्षणेति न वृद्धिः । अश्वसीत् ॥ ३॥ अन च । अनिति । आन अनिता । आनीत् ॥ आनत् ॥ अनितेः ।।४।१९॥ उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति ॥ ४ ॥ जक्ष भक्षहसनयोः । जक्षिति । जक्षितः ॥ अदभ्यस्तात् ७१॥४॥ झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्तेति जुस् । अजक्षुः । अयमन्तःस्थादिरित्युज्वलदत्तो बभ्राम ॥ ५॥ रुदादयः पञ्च गताः ॥ जागृ निद्राक्षये । जागर्ति । जागृतः । जाग्रति । उपविदेत्याम्वा । जागरांचकार । जजागार ॥ जाग्रोऽविचिण्णङित्सु ॥३॥८५ ॥ जागर्तेर्गुणः स्याद्विचिण्णल्भ्यिोऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥ जुसि च ७३८३ ॥ अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु । जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते । तं सिचि वृद्धिः । तां जागर्तिगुणः । तत्र कृते हलन्तलक्षणा प्राप्ता नेटीति निषिद्धा । ततोऽतो हलादेरिति बाधित्वाऽतो रान्तस्येति वृद्धिः प्राप्ता यन्तेति निषिध्यते । यदाहुः ॥ गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यणपूर्वाः प्राप्तयो नवेति ॥ १॥ दरिद्रा दुर्गतौ । दरिद्राति ॥ इद्दरिद्रस्य ।६।४।११४ ॥ दरिद्रातेरिकारः स्याद्धलादौ किति सार्वधातुके । दरिद्रितः ॥ नाभ्यस्तयोरातः।६४११२॥ अनयोरातो लोपः स्यात् ङिति सार्वधातुके । दरिद्रति । अनेकान्त्वादाम् । दरिद्रांचकार । आत औ णल इत्यत्र ओ इत्येव सिद्धे औकारविधानं दरिद्रातरालोपे कृते श्रवणार्थम् । अत एष ज्ञापकादानेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥ दरिद्रातरार्धधातुके विवक्षिते आलोपो वाच्यः ॥ लुङि वा सनि एबुलि च न * ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् ।