________________
तिङन्ते अदादयः ।
२११ प्रयोगो नेति न्यासकारः ॥ १७ ॥ प्रा पूरणे ॥ १८ ॥ मा माने । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गदेत्यत्र नास्य ग्रहणम् । प्रनिमाति । प्रणिमाति ॥ १९॥ वच परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये । झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् ॥ २० ॥ विद ज्ञाने ॥ विदो लटो वा ।।४।८३ ॥ वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद। वेद । विद्व । विद्म । पक्षे । वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उष विदेत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥ विदांकुर्वन्त्वित्यन्यतरस्याम् ।।११४१॥ वेत्तेर्लोट्याम् गुणभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इतिशब्दात् ॥ तनादिकृञ्भ्य उः३।११७९॥ तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेव सिद्धे कृग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥ अत उत्सार्वधातुके ।।४।११० ॥ उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके विति । उदिति तपरकरणसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्चेति हेर्लक् । आभीयत्वेन लुकोऽसिद्धत्वादुत्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्तेति झेर्जुस् । अविदुः ॥ दश्च ।८२७५ ॥ धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः । अवेत् ॥ २१ ॥ अस् भुवि । अस्ति ॥ श्नसोरल्लोपः।६।४।१११॥ भस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके कृिति । स्तः । सन्ति । तासस्त्योरिति सलोपः। असि । स्थः । स्थ । अस्मि । खः । स्मः ॥ आर्धधातुके इत्यधिकृत्य ॥ अस्तेर्भूः ।।४। ५२ ॥ बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥ ध्वसोरेद्धावभ्यासलोपश्च ।६।१११९॥ घोरस्तेश्च एत्वं स्याद्धौ परे अभ्यासलोपश्च । आमीयत्वेन एत्वस्यासिद्धत्वाद्धेधिः । श्नसोरित्यल्लोपः । एधि । तातपक्षे एत्वं न, परेण तातङा बाधात् । सकृद्ताविति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच इतीट् । आसीत् । नसोरित्यल्लोपस्याभीयत्वेनासिद्धत्वादाट । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीन ॥ उपसर्गप्रादुामस्तिर्यच्परः ८३२८७॥ उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य षः स्याद्यकारेऽचि च परे । निष्यात् । प्रादुःप्यात् । निषन्ति । प्रादुःषन्ति । यच्परः किम् । अभिस्तः ॥ २२ ॥ मृजू शुद्धौ ।। मृजेर्वृद्धिः।७।२।११४ ॥ मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ॥ कित्यजादौ वेष्यते * ॥ व्रश्चेति षः । माष्टिं । मृष्टः । मृजन्ति । मार्जन्ति । ममार्ज । ममातुः । ममृजतुः । ममाजिथ । ममाष्ठं । मार्जिता । मार्टा । मृड्डि । अमा-अमाई । अमार्जम् । अमार्जीत् । अमाक्षीत् ॥ २३ ॥ रुदिर अश्रुविमोचने ॥ रुदादिभ्यः सार्वधातुके १२७६ ॥ रुद् स्वप्