________________
२०८
सिद्धान्तकौमुद्याम् चक्शे । चयो द्वितीया इति तु न । चवस्यासिद्धत्वात् । चचक्षे । ख्याता । क्शाता । ख्यास्यति । ख्यास्यते । क्शास्यति । क्शास्यते । अचष्ट । चक्षीत । ख्यायात् । ख्येयात् । क्शायात् । क्शेयात् ॥ अस्यतिवक्तिख्यातिभ्योऽङ् ।।१।५२ ॥ एभ्यश्चलेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ॥ वर्जने खशाञ् नेष्टः * ॥ समचक्षिष्टेत्यादि ॥ ५॥ ॥ अथ पृच्यन्ता अनुदात्तेतः ॥ ईर गतौ कम्पने च । ईर्ते । ईरांचक्रे । ईर्ताम् । ईर्ध्व । ईर्ध्वम् । ऐरिष्ट ॥ १ ॥ ईड स्तुतौ । ईट्टे ॥ ईशः से रा७७॥ ईडजनोर्वे च ७२७८ ॥ ईशीड्जनां शेध्वेशब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागो वैचित्र्यार्थः । ईडिपे । ईडिध्वे । एकदेशविकृतस्यानन्यत्वात् । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्वम् ॥ २ ॥ ईश ऐश्वर्ये । ईष्टे ईशिषे । ईशिध्वे ॥ ३ ॥ आस उपवेशने । आस्ते ॥ दयायासश्च ॥ आसांचक्रे । आस्ख । आध्वम् । आसिष्ट ॥ ४ ॥ आङ शासु इच्छायाम् । आशास्ते । आशासाते । आयूर्वत्वं प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् ॥ ५॥ वस आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता ॥ ६ ॥ कसि गतिशासनयोः । कंस्ते । कंसाते । कंसते । अयमनिदिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ़े ॥ ७ ॥ णिसि चुम्बने । निस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम ॥ ८॥ णिजि शुद्धौ । निते । निले । निञ्जिता ॥ ९ ॥ शिजि अव्यक्ते शब्दे । शिळे ॥१०॥ पिजि वर्णे । संपर्चने इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिते ॥ ११ ॥ पृजि इत्येके । पृङ्क्ते ॥ १२ ॥ वृजी वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदिदित्यन्ये । वृते ॥ १३ ॥ पृची संपर्चने । पृक्ते ॥ १४ ॥ खूङ् प्राणिगर्भविमोचने । सूते । सुषुवे । सोता । सविता । भूसुवोरिति गुणनिषेधः । सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट ॥ १५॥ शीङ् खप्ने ॥ शीङः सार्वधातुके गुणः ।४।२१॥ किति चेत्यस्यापवादः । शेते । शयाते ॥ शीङो रुट् ।१।६ ॥ शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ १६ ॥ * ॥ अथ स्तौत्यन्ताः परस्मैपदिनः॥ ऊर्णस्तूभयपदी । यु मिश्रणेऽमिश्रणे च ॥ उतो वृद्धिलकि हलि ७३२८९ ॥ लुग्विषये उकारस्य वृद्धिः स्यात्पिति · हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्नेति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् ॥ १॥ रु शब्दे ॥ ॥ तुरुस्तुशम्यमःसार्वधातुके ।७३९५ ॥ एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्डा स्यात् । नाभ्यस्तस्येत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः ।