________________
तिङन्ते अदादयः।
२०७ पृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आव । आद्म । अद्यात् । अद्याताम् । अधुः । अद्यास्ताम् । अद्यासुः ॥ लुसनोर्घस्ल ।।४।३७ ॥ अदो घस्ल स्यात् लुङि सनि च । लदित्त्वादङ् । अघसत् ॥ हन हिंसागत्योः । प्रणिहन्ति ॥ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि विति ।६।४।३७ ॥ अनुनासिकेति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ विति परे । यमि रमि नमि गमि हनि मन्यतयोऽनुदात्तोपदेशाः । तनु षणु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः । नन्ति ॥ वमोर्वा ।४।२३ ॥ उपसर्गस्थानिमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि । प्रहन्मि । प्रहण्वः । प्रहन्वः । हो हन्तेरिति कुत्वम् । जघान । जन्नतुः । जघ्नुः ॥ अभ्यासाच्च ७३। ५५॥ अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ । जघन्थ । हन्ता । ऋद्धनोरितीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥ हन्तेजः ।।४।३६॥ हौ परे । आभीयतया जस्यासिद्धत्वाद्धेन लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अनन् । अहनम् ॥ आर्धधातुके ।।४॥३५॥ इत्यधिकृत्य ।। हनो वध लिङि ।। ४।४२ ॥ लुङि च ।।४।४३ ॥ वधादेशोऽदन्तः । आर्धधातुक इति विषयसप्तमी । तेनार्धधातुकोपदेशे अकारान्तत्वादतो लोपः । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेरिति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वादतो हलादेरिति न वृद्धिः । अवधीत् ॥ ३ ॥ ॥ अथ चत्वारः खरितेतः॥ द्विष अप्रीतौ । द्वेष्टि । द्विष्टे । द्वेष्टा । द्वेक्ष्यति । द्वेक्ष्यते । द्वेष्टु । द्विष्टात् । द्विति । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥ द्विषश्च ।।४।११२॥ लङो झेर्जुस्खा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् ॥ १॥ दुह प्रपूरणे । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । दुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुहेति लुपक्षे तथासूध्वंवहिषु लदपि ॥२॥ दिह उपचये । प्रणिदेग्धि ॥ ३ ॥ लिह आखादने । लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिक्षे । लीढ़े । लेछु । लीढि । लेहानि । अलेट् । अलिक्षत् । अलिक्षत । अलीढ । अलिक्षावहि । अलिहहि ॥ ४ ॥ चक्षिा व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम् तु न । अन्तेदित इति व्याख्यानात् । ङकारस्तु अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यमिति ज्ञापनार्थः । तेन स्फायनिर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते ॥ आर्धधातुके इत्यधिकृत्य ॥ चक्षिङः ख्याञ् ।।४।५४ ॥ वा लिटि ।।४।५५ ॥ अत्र भाष्ये ख्शादिरयमादेशः । असिद्धकाण्डे शस्य यो वेति स्थितम् । जित्त्वात्पदद्वयम् । चख्यौ । चख्ये । चक्शौ ।