________________
२०६
सिद्धान्तकौमुद्यम्
ऊवुः। वयेस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन भित्त्वात्तङ् । ऊये । ऊ । वयादेशाभावे ॥ वेञः | ६|१|४० ॥ वेञो न संप्रसारणं स्याल्लिटि । ववैौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् ॥ १३ ॥ व्येञ् संवरणे । व्ययति ॥ न व्यो लिटि | ६|१|४६ ॥ व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिः शेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्णादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इत्त्यर्तीति नित्यमिट् । विव्ययिथ । विव्याय । विव्यय । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ॥ १४ ॥ ह्वे स्पर्धायां शब्दे च ॥ अभ्यस्तस्य च |६|१|३३ ॥ अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्रासीष्ट ॥ लिपि - सिचिह्नश्च |३|१|५३ || एभ्यश्लेरङ् स्यात् ॥ आत्मनेपदेष्वन्यतरस्याम् ||३|१| ५४ ॥ आतो लोपः । अहृत् । अह्वताम् । अह्वन् । अह्नत । अह्वास्त ॥ १५ ॥ अथ द्वौ परस्मैपदिनौ ॥ वद व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रजेति वृद्धिः । अवादीत् ॥ १ ॥ टुओश्वि गतिवृद्ध्योः । श्वयति ॥ विभाषा श्वेः |६|१|३० ॥ श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ॥ श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः * ॥ तेन लिट्यभ्यासस्येति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । स्तम्भ्वित्यङ् वा ॥ श्वयतेरः |७|४|१८ ॥ श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा घेट्श्व्योरिति च । इयङ् । अशिश्वियत् । ह्रयन्तेति न वृद्धि । अश्वयीत् ॥ २ ॥ वृत् ॥ यजादयो वृत्ताः । भ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥
इति भ्वादयः ॥
ऋतेरीयङ् |३|१|२९ ॥ ऋतिः सौत्रः तस्मादीयङ् स्यात्खार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां चेत्येके । सनाद्यन्ता इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षायां तु आयादय आर्धधातुके वेतीयङभावे शेषात्कर्तरीति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ॥ १ ॥ अद भक्षणे । द्वौ परस्मैपदिनौ ॥ अदिप्रभृतिभ्यः शपः | २|४|७२ ॥ लुक् स्यात् । अत्ति । अत्तः । अदन्ति ॥ लिट्यन्यतरस्याम् |२|४|४० || अदो घस्ट वा स्याल्लिटि । जघास । गमहनेत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसीति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इत्यतीति नित्यमिट् । आदिथ । अत्ता । अत्स्यति || हुझभ्यो हेर्धिः | ६|४|१०१ ॥ होर्झलन्तेभ्यश्च हेर्धिः । स्यात् । अद्धि । अत्तात् । अदानि || अदः सर्वेषाम् ||३|१०० || अदः परस्या