________________
तिङन्ते भ्वादयः । * ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्षीत् । अकार्टाम् । अकाझुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अवक्षन् ॥ १३ ॥ दह भस्मीकरणे । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीतू । अदाग्धाम् । अधाक्षुः ॥१४॥ मिह सेचने । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् ॥ १५॥ कित निवासे रोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ॥ १६ ॥ दान खण्डने । शान तेजने ॥ इतो वहत्यन्ताः खरितेतः॥ दीदांसति । दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति, शानयति ॥२॥ डुपचष् पाके । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट ॥ ३ ॥ षच समवाये । सचति । सचते ॥ ४ ॥ भज सेवायाम् । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त ॥ ५ ॥ रञ्ज रागे । नलोपः । रजति । रजते । अरासीत् । अरत ॥ ६ ॥ शप आक्रोशे । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त ॥ ७ ॥ त्विष दीप्तौ । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत । अत्विक्षाताम् ॥ ८॥ यज देवपूजासङ्गतिकरणदानेषु ॥ यजति । यजते । लिट्यभ्यासस्योभयेषाम् ।६०१७ ॥ वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्यालिटि । इयाज ॥ वचिखपियजादीनां किति ।६११५ ॥ वचिखप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनःप्रसङ्गविज्ञानावित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट ॥ ९॥ डुवप् बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त ॥ १० ॥ वह प्रापणे । उवाह । उवहिथ ॥ सहिवहोरोदवर्णस्य ।। उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षीत् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढम् ॥११॥ वस निवासे । परस्मैपदी । वसति । उवास ॥ शासिवसिघसीनां च ।।६०॥ इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता ॥ सः स्यार्धधातुके ।४।४९॥ सस्य तः स्यात्सादावार्थधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ॥ १२ ॥ वेञ् तन्तुसन्ताने । वयति । वयते ॥ वेनो वयिः ।।४।४१ ॥ वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृजतीनां डिति च ।।१।१६ ॥ एषां किति किति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥ लिटि वयो यः ।।११३८ ॥ वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥ वश्चास्यान्यतरस्यां किति ।६।१।३९ ॥ वयो यस्य वो वा स्यात्किति लिदि । ऊवतुः ।