________________
२०४
सिद्धान्तकौमुद्याम् नोतीत्येव सिद्धे स्तुखझ्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वत । पर्यखत ॥७॥ हद पुरीपोत्सर्गे ॥ हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥८॥ ॥ अथ परस्मैपदिनः॥ निविदा अव्यक्ते शब्दे ॥१॥ स्कन्दिर गतिशोषणयोः । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्त्वादङ् वा । अस्कदत् । अस्कान्त्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥ वेः स्कन्देरनिष्ठायाम् ।८।३। ७३ ॥ षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥ परेश्च ।।३।७४ ॥ अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परिस्कन्दति । परिष्कण्णः। परिस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्पत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्गमित्यभ्युपगमात् । पूर्व धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्व साधनेनेति मतान्तरे तु न णत्वम् ॥ २ ॥ यम मैथुने । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् ॥ ३ ॥णम प्रहृत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् ॥ ४ ॥ गम्ल सृप्त गतौ ॥ इषुगमियमां छ:३७७॥ एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता । गमेरिट् परस्मैपदेषु ।२।५८॥ गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लादित्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।६।११५९॥ उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति परे । सप्ता । सर्ता । स्रप्स्यति । सीति । असृपत् ॥६॥ यम उपरमे ॥ यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ॥ ७ ॥ तप सन्तापे । तप्ता । अताप्सीत् ॥ निसस्तपतावनासेवने ८३३१०२॥ षः स्यात् । आसेवनं पौनःपुन्यं ततोऽन्यस्मिन्विषये । निष्टपति ॥ ८॥ त्यज हानौ । तत्यजिथ । तत्यक्थ । त्यक्ता । अत्याक्षीत् ॥ ९॥ षञ्ज सङ्गे । दंशसञ्जखञ्जां शपीति नलोपः । सजति । सङ्का ॥ १०॥ दृशिर प्रेक्षणे । पश्यति ॥ विभाषा सृजिशोः ७२॥६५॥ आभ्यां थल इड़ा ॥ सृजिशोझल्यमकिति ।६।१।५८ ॥ अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥ ऋहशोऽङि गुणः७४।१६ ॥ ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङ भावे ।। न दृशः३२॥४७॥ दृशश्लेः क्सो न । अद्राक्षीत् ॥ ११॥ दंश दशने । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्जति नलोपः। दशति । ददंशिथ । ददंष्ठ । दंष्टा । दसयति । दश्यात् । अदाङ्क्षीत् ॥ १२ ॥ कृष विलेखने । विलेखनमाकर्षणम् । क्रष्टा । कर्टी । ऋक्ष्यति । कति ॥ स्पृशमृशकृषतृपद्दपां च्लेः सिज्वा वाच्यः